________________
(५१) भूपरीक्षाग्रहकीलकारोपणमेकपञ्चाशं सूत्रम् ॥
विश्वकर्मोवाच
भूमेः परिग्रहं कृत्वा सप्तावनिमितिकमैः। दिव्यानि वीक्ष्य भौमानि शुभान्यशुभकानि च ॥१॥ शुभेषु प्रस्थिते सिद्धिर्विजय: स्यान्महोत्सवः । अशुभेषु निवर्तेत न गच्छेत् पदमग्रतः ॥ २॥ तन्मध्ये तथा धानं शकुनानि न लक्षयेत् । चेष्टायुक्तिसमाख्यातं तत्फलं शकुनोत्तमैः ॥ ३ ॥ आचार्यः सूत्रधारैश्च यजमानश्च संयुतः। त्रयश्च साधकैश्चैव कर्मकारादिसंयुताः ॥ ४॥ आचार्यश्च स्वयं ब्रह्मा शिल्पी चैव जनार्दनः। यजमानस्तु शक्र: स्यात् त्रिभिः कर्म प्रवर्तते ॥ ५ ॥ तत्र भूमि समीकृत्य त्रयः सह साहायकैः । दिशाक्षेत्रबलिं दद्युः कुर्युः खातपरीक्षणम् ॥ ६ ॥ हस्तमा खनेद् भूमि तस्यान्तधृतपांशुकम् । तत; खातं समाशोध्य पूरयेत् पांशुना वृतम् ॥ ७ ॥ अधिक पांशुके श्रेष्ठा मध्यमा समपांशुके । हीनपांशौ कनिष्ठा च ज्येष्ठा मध्याधमा त्रिधा ॥ ८॥ खातं तत्रोदकैर्मृत्वा शिल्पी शतपदं व्रजेत् । अर्धे समे च पादोने कनिष्ठोत्तममध्यमाः ॥९॥ पुण्योदकै तं खातमूर्व बाणं समुक्षिपेत् । भृते मही चोत्तमा स्यान्मध्यमाङ्गुलहीनतः ॥ १०॥ थङ्गलोने कनिष्ठा स्यात् त्रिविधं भूमिलक्षणम् । अल्पोदकेऽतिहीना स्याद्वर्जयेदधमाधमम् ॥ ११ ॥ ततः सम्पूरयेद्वत्स सुदिने सम्प्रधार्यते । परीक्षयेच भूम्याद्यं वर्णगन्धैश्च स्वादतः ॥ १२ ॥ भूमीनामष्टलवादि गुणदोषान ब्रवीमि ते।। पूर्वप्लवा धरा श्रेष्ठा ह्यायुःश्रीबलवर्द्धिनी ॥ १३ ॥ सर्वसंपत्करी पुंसां प्रासादानां विभूतिदा । राज्यपूज्या सदानन्दा प्राक्प्लवाचेद्भवेन्मही ॥ १४॥ आग्नेयप्लवका भूमिरग्निदाहभयावहा । शत्रुसन्तापदा नित्यं कलिदोऽग्निप्लवः स्मृतः॥ १५ ॥