________________
सूत्रधारलक्षणात्मकं पञ्चांशं सूत्रम् ॥
द्वारदृष्टिपदस्थानं तथाग्रे वाहनादिकम् । दृष्टिस्थानं चान्तरं तु ज्ञायते सूत्रकर्मणा ॥ १६ ॥ लक्षणं च द्वारविधि शिवलिङ्गेषु सर्वतः । मानोन्मानप्रमाणं च ज्ञायते सूत्रकर्मणा ॥ १७ ॥ वितानानि विचित्राणि क्षिप्तान्युत् क्षिप्तकानि च । मन्दारसभापद्मानि ज्ञायन्ते सूत्रकर्मणा ॥ १८॥ वितानानां संवरणा घण्टाकुट समाकुलाः । सिंहसंघटनाकीण ज्ञायन्ते सूत्रकर्मणा ॥ १९ ॥ शुक्लाम्बरधरः सूत्र स्वस्थचित्तः समाहितः । पूजापरिग्रहं दद्यादात्मचिन्ता तु दैवते ॥ २० ॥ तुष्टिदानं ततो दद्यात्सर्वकर्मसु वै तथा । सुभृत्यांस्तोषयेत्तत्र कर्मकारापरैः सह ॥ २१ ॥ तोषितैः सर्वसूत्रैश्च गुरुतः क्षेममाप्नुयात् । निर्विघ्नं च भवेत्तत्र सर्वकामफलं भवेत् ॥ २२ ॥ सिद्धि विनायकं चादौ क्षेत्रपालांस्ततोऽर्चयेत् । पूजयेदुक्तविधिना योगिनीश्च कुमारिकाः ॥ २३ ॥ भूपरिग्रहणं प्रोक्तं शुभं धात्री परीक्षणम् । पूर्वे त्वेयं प्रवक्ष्यामि शृणु चैकाग्रमानसः ॥ २४ ॥
इति सूत्रसन्तानगुणकीर्ति का प्रोक्तृ श्री भुवनदेव | चार्योक्ता पराजित पृच्छायां सूत्रधारलक्षणाधिकारी नाम पञ्चांशं सूत्रम् ॥
११९