________________
१२८
अपराजित पृच्छा
निर्जिता असुरा युद्धे देवाश्च प्रबलाः स्थिताः । तदाव्याप धरास्वेवं सुरराज्यं महोत्सवम् ॥ १५ ॥ अनन्तरं महाभूता दैत्याञ्चैव महोत्कटाः । वतरिताः शैलेन्द्रेषु दैत्येन्द्राश्च महोत्कटाः ॥ १६ ॥ शैलरूपैश्च सम्भूय सपक्षाः क्रोधपर्वताः । तथा पतन्त्युत्पतन्ति यत्र भूर्जनसंकुला ॥ १७ ॥ निर्दहन्ति धराधार्थ खेटग्रामपुरादिकम् । नरोरगसुरेन्द्राश्च पर्वतैर्भस्मसात्कृताः ॥ १८ ॥ ततो देवादिकाः सर्वे मरुत्वत्पुरमाश्रिताः । व्यशापयन् सहस्राक्षं धराधरविनाशिनम् ॥ १९ ॥ क्रोधादिन्द्रेण वज्रेण स्थापिता भुवि पर्वताः । छेदिताश्च ततः पक्षा अचला यत्र संस्थिताः ॥ २० ॥ गङ्गायमुनयोर्मध्ये प्रारब्धो यज्ञ उत्तमः । निर्जिताश्च सुरैर्यशरक्षा वज्रायुधैः कृता ॥ २१ ॥ असुराश्च ततः सर्वे चिन्तातुरतया स्थिताः । नैर्ऋत्ये कुण्डसंभूतं भार्गवोरुशक्त्यात्मकम् ॥ २२॥ दुर्जयं दुर्निरीक्षं च महाघोरं सुदारुणम् । स्फुरन्तं विद्रुमाकारं लोचनैरग्निसन्निभैः ॥ २३ ॥
हुताशनगर्भसम्भूतं प्रलयान्तसमप्रभम् । स्फुरत्स्फुलिङ्गं ज्वलन्तं दुर्निरीक्ष्यं भयप्रदम् ॥ २४ ॥ त्रिनेत्रं विकृतं रौद्रं जटिलं वाललोहितम् । इंष्ट्राकरालमत्युग्रं मुखे दावाग्निसन्निभम् ॥ २५ ॥ कृतान्ततुल्यं दशनैश्चण्डोष्ठपुटान्तरे । भूतलान्ते तलं तस्य आलोके बाहुपञ्जरम् ॥ २६ ॥ स्कन्धग्रीवाकरा व्योम्नि ब्रह्माण्डे च गतं शिरः । तेजोरूपं स्फुरन्तं च प्रलये भैरवं यथा ॥ २७ ॥ निनदन्तं महाभीमं मन्ये कल्पान्तगर्जितम् । त्रस्तास्तु देवताः सर्वा रूपं दृष्ट्वा सुदारुणम् ॥ २८ ॥
ध्यानयुक्ताश्च चलिताः भयभीता महोरगाः । दिक्पाला लोकपालाश्च प्रणश्यन्ति महासुराः ॥ २९ ॥
ब्रह्मराक्षसवैताला आश्रयन्ति महेश्वरम् । आदित्याद्या ग्रहाः सर्वे आश्रयन्ति जनार्दनम् ॥ ३० ॥