________________
(४८) भूपरीक्षाग्रहपूजा नामाष्टचत्वारिंशं सूत्रम् ॥
विश्वकर्मोवाच
महेन्द्रो मलयश्चैव सिंहश्च विक्रमस्तथा । समुद्रः पारिजातश्च श्रीशैलश्च तथाव॒दः ॥१॥ नीलश्च श्वेतशङ्गश्च चन्द्रः प्रभाससम्भवः । गन्धमादनोजयन्तौ प्राप्ता श्वेतसम्भवः ? ॥२॥ गङ्गाया यमुनायाश्च नर्मदायास्तटे तथा । गोदावर्याः सरस्वत्याः सिन्धौ पृष्ठे तथैव च ॥३॥ तापी मही तुगभद्रा कावेरी चन्द्रभागिका । पयस्वती साभ्रमती कृष्णा नीरा च निर्मला || ४॥ भीमाक्षी सिंहिका ख्याता नीलोद्भवा च वेत्रकी। रेवती मधुरा ख्याता विश्वामित्री च मूलका ॥ ५॥ कुरुक्षेत्रे च गङ्गायामन्तवेद्यां तथैव च । नैमिषे कुब्जाम्रकेषु महाकालवने तथा ॥६॥ सिद्धायतनतीर्थेषु नदीनां सङ्गमेषु च । उर्वरीषु श्मशानेषु चत्वरे उदकाश्रिते ॥ ७ ॥ सुप्रदेशे शभे रम्ये गहरे गिरिमाश्रिते। वने चोपवने चैव यत्र वा रोचते मनः ॥ ८॥ नगरप्रामपूमध्ये खेटके चैव कर्वटे। तडागकूपमाश्रित्य प्रसिद्धनृपमार्गके ॥ ९॥ प्रपादे कुलसम्भवे कुर्याद्वै शवमण्डपम् । जनालयदिककुड्यानि वापिरियुता तथा ॥१०॥ शुभे दिने शुभे ऋक्षे सुलग्ने सुमुहूर्तके । आदौ च भूपरीक्षायां शकुनं हि विलोकयेत् ॥ ११ ॥ पूजाबलिविधानेन शकुनेशं तथा परम् । दुर्लभ लभते वत्स विश्वकर्मप्रभाषितम् ॥ १२॥ आदावुत्तरतो वत्स पश्चाद् दक्षिणतो भवेत् । उत्तरे सिद्धिसंपत्तिः क्षेमलाभस्तु दक्षिणे ॥ १३ ॥ पुनः शब्दोत्तरे स्थाने शकुनस्यापराजित । सर्वकामफलं तत्र शकुनेशे न संशयः ॥ १४॥ प्राप्ते शकुनराजे तु सुलग्ने सुमुहुर्तके। आचार्य चागमैर्युक्ते बलिपूजां निवेदयेत् ॥ १५ ॥