________________
११४
अपराजितपृच्छा सूत्रधार: शास्त्रयुक्तो वास्तुवेदोपलक्षकः। सूत्रकंवीसमायुक्तः सर्वशास्त्रसुकौशलः ॥ १६ ॥ तदा क्षेत्रे प्रतिष्ठा तु पुण्यस्थाने सुशोभने । आचार्यसूत्रधारैश्च कृता पूजा महोदिता ॥ १७ ॥ आदौ तु पूजयेद् देवं गणनाथं विनायकम् । सिद्धिबुद्धिसमायुक्तं मुदा विधिविधानतः ॥ १८॥ ब्रह्मा विष्णुश्च रुद्रश्च पूजनीयाः प्रयत्नतः! येषां स्मरणमात्रेण सर्वसिद्धिः प्रजायते ॥ १९ ॥ क्षेत्रपालं ततोऽभ्यर्चेत् लाभार्थी सुजटाधरम् । योगिनीबटुकं देवीः कुमारी: सविशेषतः ॥२०॥ सर्वदेवास्तत: पूज्या दिक्पालांश्च ततोऽर्चयेत् । प्रतिदिक्पालदेवांश्च तज्जातीयसपर्यया ॥२१॥ वास्तुपूजाविधानं तु कर्तव्यं दिशकोत्तमैः । निर्विघ्नं च भवेत्तत्र हेतुकादिः समर्चने ॥२२॥ वरुणा विधानं तु विशेषात्कारयेत्ततः । आचार्य पूजयेद्वत्स विप्रैश्च सह सुन्दरम् ॥ २३ ॥ सूत्रधारं ततोऽभ्यर्चेदष्टसूत्रप्रबोधकम् । हस्तपूजाविधानं तु कर्त्तव्यं त्वपराजित ॥ २४ ॥ भूमिदानं ततो दद्याद् गोमहिष्यश्वसंयुतम् ।। हिरण्यवस्नछत्राद्यैर्महादानैः क्षमापयेत् ॥ २५॥ वन्दितान पूजयेद्वत्स सुभक्त्या क्षितिपालकैः । कृपा च सर्वजन्तूनां कर्तव्या सिद्धिमिष्यतैः ॥ २६॥ पश्चाढू दानं तथा कुर्याद् दीनान्धकृपणेषु च । तत: कामं समारभ्य चाष्टसूत्रं विधिक्रमम् ॥ २७ ॥ पूजा बलिविधानं च कृत्वा कर्म समारभेत् । सर्व सिद्धयति तत्कर्म सर्वकामफलप्रदम् ॥ २८ ॥ स्थिरे चित्ते सुधीस्तत्र स्फुरति विपुलाऽमला। नित्यं पुंसां यदुक्तं गुरुणा विधानं देवेन या निर्मिता ? ॥ २९ ॥ शास्त्रगणितमूर्ध्नि मपरे स्वस्थे बुद्धिशोभना । नित्यं स्फुरति दर्पणे मन:स्था महतामपि न विसाद्भताः ? ॥ ३०॥ तेनेदं सिद्धयते सर्व वास्तुस्थानपरिग्रहम् । पूजादानश्च सूत्रश्च संयोगैः प्रभुरभूत्तयोः ? ॥ ३१ ॥