________________
११२
अपराजित पृच्छा
शमेकशेषं च त्यक्त्वा सूत्रापरः शिखा ? | पृथु गुणितं षड क्षेत्रजं फलम् ॥ ३१ ॥ इति षडक्षेत्रम् ॥
वर्गमूलफलं त्यक्त्वा बहुभागं शक्रांशं त्यजेत् । शेषं फलं विजानीयात् क्षेत्रे वै षोडशाधके ॥ ३२ ॥
इति षोडशाध्रक्षेत्रम् ॥
चापाकारे यदा क्षेत्रे पृथुत्वं मध्यपादतः । त्रिभागं द्विगुणं कृत्वा पृथुत्वं चैव साधयेत् ॥ ३३ ॥ पादान्तं गुणितानं च मध्ये गुणं पृथु मध्यम् ? | वामे च द्विगुणं दीर्घं चापाकारे क्षेत्रफलम् ॥ ३४ ॥
इति चापाकारक्षेत्रम् ॥
षड्बृहद्भुजार्धवासं भिन्नैः शीर्ष शिखान्तकैः । पृथुदीर्घगुणिते त्रिकोणे क्षेत्रफलं भवेत् ॥ ३५ ॥
इति त्रिकोणक्षेत्रम् ॥
दीर्घ समभुजान्ते च पृथुत्वं मध्यस्थानके । पृथुपादं परित्यज्य षडंशं च पुनर्ददेत् ॥ ३६ ॥
इत्यर्थचन्द्र क्षेत्रम् ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्तापराजित पृच्छायां गणितक्षेत्र निर्णयाधिकारो नाम सप्तचत्वारिंशं सूत्रम् ॥