________________
गणितक्षेत्रनिर्णयो नाम सप्तचत्वारिंश सूत्रम् ॥ खातमानं तु पाषाणे गोलपिण्डैस्तु ताडयेत् । तदसंख्याता कर्माणं पाषाणस्य तदन्तरम् ? ॥ १५॥ नवत्यङ्गुलदैये च पृथुत्वे चतुर्विंशतिः । द्वादशाङ्गलपिण्डं च शिलामानप्रमाणतः ॥ १६॥ यच्छिलाया: समानं च गणित्वा क्रमयोगतः। तेषां गुणितसङ्ख्याश्च पाषाणाश्च क्रमोदिताः ।। १७ ॥ दीर्घ द्वादशको भाग: षड्भागश्चैव विस्तरः। पिण्डस्य तुर्यों भागश्च अन्योन्यमपि ताडयेत् ॥ १८ ॥ दीर्घहस्तान् पृथुत्वेन पुनः पिण्डेन ताडयेत् । व्यष्टाशीतिशतैर्भागं लब्धिरङ्गलसङ्ख्यिका ॥ १९ ॥ पृथुपिण्डे ताड्यमाने वृद्धिहाससमुद्भवे। शिलानां क्रमयोगे तु खातमानं तथोच्यते ॥ २० ॥ पिण्डाङ्गलैहिस्ता गुणितव्याः प्रयत्नतः। पृथुह्रस्ववृद्धयार्धा च धत्ते मानं शिलादिकम् ॥ २१ ॥
इति शिलामानः ॥ व्यासे त्रिगुणे परिधिः षष्ठभागविमिश्रिते । व्यासार्धं च परिध्यर्थं गुणे वृत्तफलं भवेत् ॥ २२ ॥ समस्ता वृत्तपरिधिर्गुणिता व्यासपादतः। हरेश्चतुर्विंशतिमिर्लब्धमङ्गलतत्फलम् ॥ २३॥ व्यासे वर्गस्य ? गुणिते चतुर्थाशं तु पातयेत् । शेषेऽष्टादशके भागे क्षिप्ते वृत्तफलं भवेत् ॥ २४॥ व्यासवर्गहस्तैकोनपञ्चाङ्गलानि पातयेत् । शेषं यल्लभ्यते तश्च वृत्तस्यापि फलं भवेत् ॥२५॥ तस्यास्तु(स)वौलेनहितं खातकूपफलं भवेत् । पाषाणपिण्डहतं वा शिलामानं तु सङ्ख्यया ॥ २६॥ भूवदन समासार्धं च लम्बकेनात्र गुणितम् । कुहलं लम्बहतं च जायते क्षेत्रफलम् ॥ २७ ॥ तविवेधगुणितं च खातफलं प्रसिद्धयेत् । समविषमाधवेधैः पदैर्विषमवेधकः ? ॥२८॥ गोलव्यासवर्गगुणं ताडयं व्यासार्धपिण्डकम् । द्विशताष्टाशीतिहृतं लब्धं गोलफलं भवेत् ॥ २९ ॥ व्यासवर्गे तु गुणितं फलमेकं ? प्रकीर्तितम् । षड्भागं द्विरसं त्यक्त्वाऽष्टाधे क्षेत्रफलं भवेत् ॥ ३०॥
इत्यष्टावक्षेत्रम् ॥