________________
(४७) गणितक्षेत्रनिर्णयो नाम सप्तचत्वारिंशं सत्रम् ।
विश्वकर्मोवाच
उद्धत्य गणितासारं सर्वशास्त्रादिदीपकम् । वेदाश्रः क्षेत्रवास्तुश्च वृत्तश्चाष्टाध एव च ॥ १ ॥ शेयो द्वात्रिंशदश्रश्च शिलायां विविधोत्तमः । षट्कोणश्च त्रिकोणश्च चन्द्राधों गोलकः परम् ॥ २॥ आदौ गणितपादं च कथयिष्याम्यनुक्रमात् । तदन्तराणि क्षेत्राणि कथये विविधानि च ॥३॥ एक दश शतमस्मात् सहस्रमनुचायुतम् । नियुतं प्रयुतं तस्मादर्बुदन्यर्बुदे अपि ॥ ४॥ वृन्दं खर्वनिखर्वाणि शङ्कपद्माम्बुराशयः । तत: स्यान्मध्यमन्त्यं च परं चापरमप्यतः ॥५॥ परार्ध चेति विज्ञेयं दशवृद्धयोत्तरोत्तरम् ।। अधोयोगे संकलितास्तत् संकलितमुच्यते ॥ ६ ॥ अग्रेऽङ्काका स्थापनीयस्तद्गुणैः पृष्ठपादतः। ऊर्ध्वमूर्ध्व क्रमान्मूलं सख्या सङ्कलिता भवेत् ॥ ७॥ एवं पादाश्च चत्वारो गणितासमुच्यते । संकलितं करणसूत्रमार्याद्वयंत्तेकोवृद्धिश्च । अधोयोगे संकलीकृता तस्मादूभेदशोत्तरां च? ॥ ८॥ अग्रपृष्ठो अग्रकोत्तरा वा शून्यपृष्ठोक्त ?। भवेद् दशोत्तरा वृद्धी ? एकरराशिस्तु गणिते मूलं वर्गों विराशिकः । त्रिराशिकोऽथवोक्तश्च घनो वै कर्णसंपुरे ॥ १० ॥ पदद्वयं हते पादे पदैस्तद् गुणितं तथा। पदनं च पदहतमित्यभिष्यं च राशिकम् ॥ ११ ॥ द्वाभ्यां तु द्विगुणीकृत्य मूलभागोभवं पदम् । एवं मूलाभिधानं च वास्तुविद्भिरुदाहृतम् ॥ १२ ॥ एवं यद् द्विगुणीकृत्य चतु? र्द्धिगुणमेव च । प्रख्यातं द्विगुणं चेति प्रयुक्तं गुणितादिके ॥ १३॥ कर्मान्तर व्यवहार क्षेत्रं चाऽपि प्रदापयेत् । दीर्घ हन्यात्पृथुत्वेन वेदाश्रस्य फलं भवेत् ॥ १४ ॥