________________
(४६) ज्योतिषलक्षणात्मकं षट्चत्वारिंशं सूत्रम् ।।
विश्वकर्मोवाच
रेवती चाश्विनी चित्रा हस्त: स्वातिपुनर्वसू । अनुराधा मृगो ज्येष्ठा नवैताः पार्श्वतोमुखाः ॥ १ ॥ गजोष्ट्राश्वाजमहिषवृषादेर्दमनं शुभम् । कुर्याद्वेश्मप्रवेशादि गमनागमने तथा ॥२॥ अरहट्टचक्रयन्त्रं रथप्रभुतियापनम् ।। प्रमाणं प्रेरणं चैव कार्य वै पार्श्वतोमुखैः ॥ ३॥ कृत्तिका भरणी चैव मघा मूलविशाखिके । तिनः पूर्वास्तथाश्लेषा ह्यधोवक्त्राः प्रकीर्तिताः ॥ ४ ॥ वापी कूपतडागानि तथा भूमिगृहाणि च । विद्यारम्भ निधानं च पातालादिप्रवेशनम् ॥ ५॥ पुष्यादें रोहिणी चैव धनिष्ठा चोत्तरात्रयम् । श्रवणं शतताराश्च नवैवोर्ध्वमुखाः स्मृताः॥ ६॥ आसु राजाभिषेकं व पट्टबन्ध महोत्सवम् । प्रासादं च गृहं चैव पताका छत्रचामरम् ॥ ७ ॥ आरामनगरारंभ निधीनां तु निषेवणम् । अचवक्त्रेषु कर्माणि तानि सर्वाणि कारयेत् ॥८॥ मघाश्लेषा विशाखा च कृत्तिका शततारका । चित्रायुक्ता धनिष्ठा च ज्येष्ठा मूलं च राक्षसः ॥९॥ पूर्वास्तिस्त्रो रोहिणी च ह्याद्री च भरणी तथा।। तिसश्चैवोत्तराश्चैवं मनुष्यः सम्प्रकीर्तितः ॥ १० ॥ मृगाश्विनी रेवती च हस्तः स्वातिपुनर्वसू । पुष्यानुराधाश्रवणमिति देवगणः स्मृतः ॥ ११ ॥ स्वगणे चोत्तमा प्रतिमध्यमा देवमानुषे । देवासुरे च कलहो मरणं नरराक्षसे ॥ १२ ॥ आदित्ये द्वादशे ऋक्षे वर्जयेद् रविपातशः। मृत्युरधादशाश्चैव कम्पो वै एकोनविंशतिः ? ॥ १३ ॥ एकविंशतिमे ऋक्षे निर्घात पतते सदा। योगानेतान् रविपातान् वर्जयेच्छुभकर्मसु ॥ १४ ॥ ग्रहाणां जन्मनक्षत्रं वर्जयेच्छुभकर्मसु । एते कलंकयोगाः स्युरॅहजन्मसु. दूषिताः ॥ १५ ॥