________________
१०४
अपराजितपृच्छा त्रीणि च त्रीणि चााणि रविभौमशनिश्चराः । आलिङ्गितं धन्विनं चैव ? तृतीय मवलोकितम् ? ॥१६॥ मेषवृश्चिकयो मः शुक्रो वृषतुलाधिपः । बुधः कन्यामिथुनयोः सोमो वै कर्कटाधिपः ॥ १७ ॥ सूर्यक्षेत्रं भवेत्तिहो धनुर्मानाधिपो गुरुः । शनिर्मकरकुम्भेश पते क्षेत्राधिपा प्रहाः ॥ १८ ॥ न पीडयन्ति स्वक्षेत्रे स्वमित्रे च ग्रहास्तथा । विषमस्था: पीडयन्ते भस्मीकुर्वन्ति विग्रहे ॥ १९ ॥ सोमश्च सूर्यभौमौ च त्रिदशाचार्य एव च । स्नेहानुगाश्च चत्वारो मैत्री स्यात्तु परस्परम् ॥ २० ॥ भार्गवः सूर्यपुत्रश्च बुधश्चापि तृतीयकः ।। स्नेहानुगास्त्रयः प्रोक्ता मैत्री स्थात्तु परस्परम् ॥ २१ ॥ प्रहा एकत्र चस्वारस्त्रिभिरेकत्र संस्थिताः । तेषां मध्ये रौद्रं घोरं महद्वैरस्य कारणम् ॥ २२॥ रविक्षेत्रे गते जीवे जीवक्षेत्रे गते रयो । विवाहं व्रतबन्धं च कुर्याद् देशान्तरं तथा ॥ २३ ॥
उद्धेगं कलहो हानिः सुखं नैव कदाचन ॥२४॥ वक्ष्ये द्वादश लग्नानि घटिकानां प्रमाणतः। सप्तपञ्चाशत्पलानि त्रिघट्यो मीनमेषयोः ॥२५॥ वषे कुम्भे चतस्त्रश्च षड्विंशति पलानि च । मिथुने मकरे पश्च घट्यो नव पलानि च ॥२६॥ धनु:कर्कटयोः पञ्च सप्तत्रिंशत् पलैः सह । सिंहवृश्चिकयोः पञ्च द्वात्रिंशच पलानि च ॥ २७ ॥ पञ्चैव कन्यातुलयोरेकोनविंशतिपलैः। इत्थं लग्नप्रमाणानि प्रोक्तानि द्वादशैव च ॥२८॥ कर्कटादि निशालग्नं नकादि दिनलग्नकम् । लग्नानि षट् तथा रात्रौ दिने स्थुः षट् तथैव च ॥ २९ ॥ घृश्चिक: कर्कटो मीनो ब्राह्मणाः परिकीर्तिताः । धनुषस्तथा सिंहो राजानश्च शुभाः स्मृताः ॥ ३० ॥ कन्या वृषश्च मकरश्चैते वैश्या उदाहृताः । मिथुनं च तुला कुम्भः शूद्रा एते प्रकीर्तिताः ॥ ३१ ॥ विप्रः कार्यों द्वादशभिः क्षत्रियो नवभिस्तथा । षड्लग्नैश्च भवेद् वैश्यत्रिभिः शूद्रः प्रशस्यते ॥ ३२ ॥