________________
१०६
अपराजित पृच्छा
चन्द्रस्यापि तथावस्था द्वादशैव भवन्ति च । तथा राशिगते चन्द्रे रुद्रट्यः सपादिकाः ॥ ३० ॥
प्रवासा च तथा नष्टा मृता जया च हसिता । कम्पिता ज्वरिता स्वस्था भुक्तस्वमा जाग्रता ? भोग्या ॥ ३१ ॥ प्रवासायां प्रवासः स्यात् नष्टायां हानिमादिशेत् । मृतायां मृत्युसंभूतिर्जयायां जयमादिशेत् ॥ ३२ ॥ हसितायां व हास्यं स्यात् कम्पितायां च कम्पनम् । ज्वरितायां ज्वरपीडा स्वस्थायां स्वस्तिकोद्भवः ॥ ३३ ॥ भुक्तायां भोजनप्राप्तिः सुप्तायां चैव निद्वितम् । जागर्तिर्जागृतायां च भोग्यायां बहुभोग्यता ॥ ३४ ॥ पञ्चत्रिंशोत्तरशतं घटिका राशिकोद्भवाः । राशिद्वादशके चैव शुभचन्द्रो यथाबलम् ॥ ३५ ॥ जन्मस्थः कुरुते पुष्टिं जन्मनक्षत्रवर्जितम् । तथानुक्रमतश्चैव द्वितीयेनैव निर्वृतिः ॥ ३६॥ तृतीये राजसन्मानं चतुर्थे कलहागमः । पञ्चमेऽर्थपरिभ्रंशः षष्ठे चैव धनागमः ॥ ३७ ॥
सप्तमे राजपूजा च ह्यष्टमे प्राणनाशनम् । नवमे शोच्यता चैव दशमे कार्यसिद्धिदः ॥ ३८ ॥ बलं च बुद्धिं सन्मानं चन्द्र एकादशे स्थितः । द्वादशस्थे शशाङ्के च मृत्युरेव न संशयः ॥ ३९ ॥ शुक्लपक्षे चन्द्रबलं कृष्णे ताराबलं शुभम् । द्विपञ्चनवमे चन्द्रः शुक्लपक्षे तु कामदः ॥ ४० ॥ तिथिस्त्वेकगुणा प्रोक्ता नक्षत्रं च चतुर्गुणम् । करणः षोडशगुणो वारश्चाष्टगुणो मतः ॥ ४१ ॥ द्वात्रिंशद्गुणको योगस्ताराश्चतुःषष्टिगुणाः । चन्द्रः शतगुणः प्रोक्तस्तस्माच्चन्द्रबलं बलम् ॥ ४२ ॥
न सूर्यवेधो दशचक्रसंकुलम् गण्डेऽतिशले परिघे च वैधृते । न राहु पृथ्वीग्रहयोग
-
(यथैव) हनते चन्द्र सहस्रदोषम् ॥ ४३ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचा यक्ता पराजित पृच्छायां ज्योतिषलक्षणाधिकारो नाम पञ्चचत्वारिंशं सूत्रम् ॥