________________
१०५
ज्योतिषफलं पञ्चचत्वारिंशं सूत्रम् ॥ पश्चिमे तथादिवर्गा वायव्ये च पफादिकाः । उत्तरे च यरलवा ईशाने शषसास्तथा ॥ १५॥
इति वर्गाष्टकम् ॥ रविचन्द्राङ्गारबुधशनिवाक्पतिराहयः ।। तथा शुक्रः समाख्याता: प्राच्यादिषु प्रदक्षिणम् ॥१६॥ षद तथा तिथयश्चैव वसवश्च सप्तदश । दश चैकोनविंशतिर्द्वादश त्वेकविंशतिः ॥ १७ ॥ सूर्यादेः क्रमयोगेन प्राच्यादिषु प्रदक्षिणम् । भुक्तिमार्गदशाश्चैव वर्षाणां सङ्ख्यया तथा ॥ १८ ॥ यस्य नामाक्षरं प्रोक्तं विभक्ती ? चर्भभुक्तया । तेषामनुक्रमेणैव कथयेऽन्तर्दशाफलम् ॥ १९ ॥ एकैकदशयुक्तांश्च प्रवर्तन्ते चाष्टौ दशाः। भुक्तमानभुक्तायुक्ता ? दशाश्चैव दशोद्भवाः ? ॥२०॥ वरिष्यन्ते दि (द)शासाध्य दिनान्ते चारुवर्द्धनम् ? । अष्ट द(
त्रिंश कृत्वानां भक्ते ग्रहायै भुक्त व दशा ? ॥ २१ ॥ सक्केशाः कार्यहीनाश्च गृहसन्तापवर्द्धनम् । शत्रुक्षयस्तेजोवृद्धिभास्करस्य दशाफलम् ॥ २२॥ शत्रुश्च जायते मित्रममृतवाग जनप्रियः। लभते चोत्सवं नित्यं शैत्यं चन्द्रदशाफलम् ॥ २३ ॥ क्रूररोगा जनाः सर्वे ह्यग्निदाहोदभवादिकम् । अर्थक्षयो दिने नित्यमङ्गारकदशाफलम् ॥ २४ ॥ बुद्धिवृद्धधर्थवृद्धी च सनेहं शोकशान्तिकम् । धनपुत्रभार्यामित्रं बुधप्रहदशाफलम् ॥ २५ ॥ देशत्यागो भयं पीडा मित्रैः सह विरोधनम् । पुत्रबन्धुत्रीवियोग: शनिश्चरदशाफलम् ॥ २६॥ आरोग्यं राज्यसन्मानमर्थवृद्धिः सदाजयः।। पूज्यन्ते गुरुतुल्याश्चाशोका गुरुदशाफलम् ॥ २७ ॥ सदा पीडा गृहबन्धुस्थानत्यागोऽथ जायते । राजगृहदण्डदुःखं प्रोक्तं राहुदशाफलम् ॥ २८॥ तेजः सदा च सन्मानं पुत्रलाभो धनागमः । सुखमानोति शारीरं शुभं शुक्रदशाफलम् ॥ २९ ॥
इति दशाफलम् ।