________________
(४५) ज्योतिषफलं पञ्चचत्वारिंशं सूत्रम् ॥
विश्वकर्मोवाच
दस्रोयमोऽनलो धाता चन्द्रः शिवस्तथादितिः वापति गपितरौ भगार्यमदिवाकरा: ॥१॥ त्वष्टा च वायुरिन्द्राशी मित्र इन्द्रश्च नैतिः। जलं च विश्वेदेवाश्च विधिर्विष्णुस्तथा वलुः ॥२॥ वरुणोऽजैकपाश्चैव तथाहिर्बुध्न्यपूषणौ । इत्यश्विन्यादिनक्षत्रदेवनामानि सन्ति हि ॥ ३ ॥ योनिवरं च कथये गणानां च समुद्भवम् । अश्वोगजराछागसो सर्पश्वान बिडालकाः । मेषो बिडालकश्चैव मूषको मूषकश्च गौः ॥४॥ महिषी च ततो व्याघ्रो महिषो व्याघ्रकः क्रमात् । मृगो मृगस्तथा श्वा च कपिनकुल एव च ॥ ५॥ नकुलो वानरः सिंहस्तुरगो मगराट् च गौः । इभ पता: क्रमेणैव ह्यश्विन्यादिभयोनयः ॥ ६ ॥ स्थिरचरद्विस्वभावमदूग्रातुरतेजसः। अष्टाविंशतिकं यावद् भचतुष्कनिबन्धनम् ॥ ७ ॥ गोव्यानं गजसिंह च महिषाश्वं श्वहारिणम् । बभ्रुसर्प कीशमेषं बिडालोदुरकं तथा ॥ ८ ॥ चतुर्दश भद्विकानां योनिरं च सप्तधा । अष्टवर्ग तथा चैषां कथयाम्यपराजित ॥९॥ अकचट तपयशा अष्टवर्णाः ॥ आऽऽद्या: शान्ता अष्टवर्णा देवक्षवचनैः शुभाः। दम्पती स्वामिभृत्ये च ग्रहनामाधिपे गणाः ॥ १०॥ साध्यवर्गे दशगुणे परवर्गेण मिश्रिते । वसुभिश्च हरेद्भागं यच्छेषं लभ्यमादिशेत् ॥ ११॥ एवं वर्ग पुनः शोभ्यमनेनानुक्रमेण च । शेषोद्धरितमध्यपात्य वृद्धयर्थे देवदैत्यकः ? ॥ १२ ॥ तस्य लभ्यं च योऽग्रतः पृष्ठोऽसौ ददते ध्रुवम् । लाभालाभौ चैव येषां कथये स्वपराजित ॥ १३ ॥ अईऊए तार्थ्यः पूर्वे आग्नेय्यां च कखादिकाः । दक्षिणे च छवर्गाश्च नैर्ऋते च टठादिकाः ॥ १४ ॥