________________
(४३) ज्योतिषपञ्चाङ्गवासना नाम त्रयश्चत्वारिंशं सूत्रम् ॥
विश्वकर्मोवाच
ज्योतिषं च प्रवक्ष्यामि पञ्चपदार्थकोत्तमम् । यतः समस्तमुत्पन्नं चन्द्रार्कद्रुतिवेदनम् ॥ १॥ यथा दिनं विना सूर्य शशाडू शर्वरी विना । कुटुम्विनो विना पुत्रं शास्त्रं वै ज्योतिष विना ॥२॥ तिथिर्वारश्च नक्षत्रं योगः करण एव च । चन्द्रार्कयोश्च सन्कान्त्या वक्ष्ये पञ्चाङ्गवासनाः ॥ ३ ॥ कल्यन्तस्था कृताद्या च प्रतिष्ठाप्येव भुक्तिका । संवत्सरेहरेदाग लब्धं शेषेक कृताः ? ॥ ४॥ संवत्सरैः पुनर्भागं लब्धं सूत्र समुद्धरेत् । एकनवत्याष्टशताभिष्टकं ? तदाङः शाक उच्यते ॥५॥ तथा नखाङ्गहीनमर्कगणचैत्रादियुक् ? । त्रिस्थानः स्थापयेच्चैवं नन्दयुग्मयमैस्तथा ॥ ६॥ फलवेदगुणा मध्याः पातं वाष्टनियोजिताः । शुन्यरामेन्दुभिर्भागोजयेत् प्रथम फलम् ॥ ७॥ अनष्टकारे शेषः ? पञ्चरामनिशाकराः । मासे धनोग्यनष्टहीना षष्ठिभागैः शेषमृणम् ॥ ८॥ अमावास्या ध्रुवकस्य मासे माले तथा पुनः।। चारभद्र ध्रुवकमासे द्विधा द्विरामधना ? ॥९॥ वेदानवेन्दुभिर्भागैः फलोनेक षष्ठिभागघटिकामाप्नोति तिथि विज्ञेय फलमासगुणामिश्रितः ? ॥ १० ॥ सप्तमे स्थितारन्येन्द्र वारउदये यमहरे मासगणे ? । द्विसंगच्छेद्विसार्धभाग पिण्डामग्निलबुद्धाद्विके । युक्तोवसयमसेसा? ॥ ११ ॥
इति नष्टध्रुवकायनम् ॥ अमावास्या ध्रुवमासे मासे मासे तथा पुनः । एवं युक्तिर्विधातव्या वर्तते चाङ्गवासना ॥ १२ ॥ एकोत्तरे वमध्ये द्वात्रिंशद् घटिकायुतम् । पक्षपिण्डं च युग्मक्षं घटिके चन्द्रसम्ख्यया ॥ १३॥ प्रथमं स्थापयेद्वारं वारघट्यस्तदुर्चतः। पिण्डकेषु अभ्रस्ताच्च ऋक्षं च घटिकार्धतः ॥ १४ ॥