________________
ज्योतिषपञ्चाङ्गवासना नाम त्रयश्चत्वारिंश
एवं भुक्ती रवेःख्याता सन्क्रात्याद्युपलक्षयेत् । एषा वन्तरयुक्तीश्च लक्ष्याः पञ्चाङ्गवासनाः ॥ १५ ॥ मासान्ते पूर्ववके योज्यामावास्यिकान्ततः । वारसप्तभागं त्यक्त्वा घटिकाः षष्टि वारोच्यते ॥ १६ ॥ एवं वारो ध्रुवे साध्यो घटिका: षष्ठिरग्रतः । अष्टाविंशतिभिर्भाग्यं शेषैः स्याद् ध्रुवसाधका ॥ १७ ॥ अमावास्या ध्रुवमांस मासे मासे तथा पुनः । एवं युक्तिर्विधातव्या वृत्ता पञ्चाङ्गवासना ॥ १८ ॥ सप्तविंशतिभागैस्तु घटिकाः पष्टिरेव च । एवमृक्षं ध्रुवे साध्यं घटिकाषष्टितः ॥ १९ ॥ एवं ध्रुवः क्रमात्साध्यो मासान्तेषु पुनः पुनः । अमान्ते च ध्रुवः साध्यस्तिथिं पश्चात् प्रवर्तयेत् ॥ २० ॥ वारस्थाने तिथियोंज्या ? हरेद्भागं तु सप्तभिः । यच्छेषं लभ्यते वारस्तेषु तिथिं तद्भाषिता ? ॥ २१ ॥ तिथिपिण्डं पुनर्भक्त्या भागं स्याद्वै द्विसप्तभिः । भागमध्ये धनं ख्यातं लब्धिमध्ये ऋणं तथा ॥ २२ ॥
द्वितीयोर्ध्व धनं ख्यातं तृतीयोर्ध्वमृणं तथा । चतुर्थोधनं चैव षष्टात्परं न विद्यते ॥ २३ ॥
भागात्परं वदेद्वाचः ? यच्छेषं तत्र तिष्ठति । शब्दयोगं च संत्यज्य शब्दाख्यं चैव स्थापयेत् ॥ २४ ॥
सूत्रम् ፀ
आये त्रयोदशे पञ्च द्वितीये द्वादशे दश । एकादशे तृतीये च नाड्यः पञ्चदश स्मृताः ॥ २५ ॥
चतुर्थे दशमे तु स्यादेकोनविंशतिस्तु ताः । पञ्चमे नवमे नाइयो द्वाविंशतिरुदाहृताः ॥ २६-१ ॥
षष्ठे मे चाकाश्चतुर्विंशतिरीरिताः । प्रतिष्ठिता शब्दसंज्ञा सप्तमे पञ्चविंशतिः ॥ २६-२ ॥
धनं चैव ऋणं वापि कल्पये च्छन्दमर्थतः । धने धनं प्रयोज्यं स्यान् मिश्रयेच्च ऋणे ऋणम् ॥ २७ ॥
तिथिः सदा ऋणं प्रोक्ता वारघट्यः सदा धनम् । स्यात् कर्कटाभिधणं धनं मकरराशिकम् ॥ २८ ॥ धनवृद्धिस्तिथिभुक्त्या ऋणवृद्धिरशोधिता । शेषाख्याता तिथिभुक्तिरन्या वारेषु भाषिता ॥ २९ ॥
९९