________________
हस्तकम्बीप्रमाणमेकचत्वारिंशं सूत्रम् ॥ एते च वासुदेवांशा: कम्बिकानिश्चला स्मृताः। आगमैर्वेदमन्त्रैश्च पूज्याश्च परमा: कलाः ॥१६॥ रुद्रश्च पवनस्त्वष्टाऽनलो ब्रह्मा तथा यमः। वरुणो धनदो विष्णुमूलतश्चान्ततः स्थिताः ॥ १७ ॥ अञ्जनैः खदिशैः कनिष्ठाः सर्जपादपैः । हेमरौप्यताम्रमयाः श्रेष्ठा लौहाश्च मध्यमाः ॥ १८॥ आयामश्चतुर्विशत्या त्रिविधाङ्गलतः स्मृतः ।। ज्येष्ठमध्यकनिष्ठानां प्रत्येक हस्तसङ्ख्यया ॥ १९ ॥ नगरग्रामपू:खेटकूटानां कर्वटस्य च । मानसङ्ख्या योजनैश्च ज्येष्ठहस्तेन मापयेत् ॥ २०॥ प्रासादप्रतिमालिङ्गजगतीपीठमण्डपान् । राक्षां निवेशं भवनं मापयेन्मध्यमानतः ॥ २१ ॥ शय्यासनं स्थालीपात्रं छत्रसिंहासनादिकम् । शस्त्र यानं च झम्पानं मापयेश्च कनिष्ठतः ॥ २२ ।। सिद्धार्थाङ्गुलपृथुत्वे पिण्डं कुर्यात् तदर्धतः। चतुर्विशत्यङ्गलानां क्रमेण नवदेवताः ॥ २३ ॥ रुद्राद्या ब्रह्मपर्यन्तं देवाः स्थानेषु पुष्पके । ब्रह्मतो विष्णुपर्यन्तं रेखाः स्युर्दादशाङ्गुलैः ॥ २४ ॥ ब्रह्मादिस्थानपञ्चकं द्विभक्तं चाहितं त्रिधा। अष्टमङ्गलं कार्य चतुर्धा द्वादशादितम् ॥ २५ ॥ इत्युक्तमानप्रमाणं प्रयुक्तं वास्तुधेदिभिः। वास्तोरुत्तरपार्श्वेऽयं कम्बिकाकलशादिकम् ॥ २६ ॥ आच्छादयेद्वस्त्रयुग्मैः कम्बिकां कलशांस्तथा। सुगन्धधूपपुष्पैश्च देवतार्थार्चनादिकैः ॥ २७ ॥ समुद्धरेत् पूजयित्वा स्तोत्रैर्याम्यकरोत्तमैः । उच्चाटनं व्याधी रोगस्तथा सन्तापकारणम् ॥ २८ ॥ अग्निभयं प्रजापीडा मृत्युाधिः पुनस्तथा। निधनं नरकपातं रुद्रादि विष्णुतस्तथा ॥ २९ ॥ एकाङ्गलो मानप्रयोग एवं सन्ख्याशब्दादिकोत्तमः ?। पर्यायशब्दा व्यवहारयोगे समीरिताः सूत्रकलाप्रवीणैः ॥ ३०॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
हस्तकम्बीप्रमाणाधिकारो नामैकचत्वारिंशत्तमं सूत्रम् ।।
-