________________
(४१) हस्तकम्बी प्रमाणमेकचत्वारिंशं सूत्रम् ॥
विश्वकर्मोवाच
हस्तलक्षणमानं च गायत्रीमान सम्भवः । मानोन्मान - प्रमाणं च सर्वकर्मसु कारणम् ॥ १ ॥ विज्ञेयं सूत्रधारेण हस्तमानं च लक्षणम् । मानोरमानप्रमाणाख्यं वास्तुशास्त्रादिदीपकम् ॥ २ ॥ भास्करोदयनाद् दिष्टः किरणैश्च प्रकाशितः । जालान्तरगते रश्मी सूक्ष्मरेण्वष्टमांशकः ॥ ३ ॥ परमाणुः प्रमाणं तत् समुद्दिष्टं समन्ततः । परमाणुरष्टगुणमेकत्र पिण्डलक्षणम् ॥ ४ ॥ रजोभिरगुणितं केशार्थं च प्रसिद्धयति । केशायैरष्टगुणितैर्लिक्षाक्रमं तु योजयेत् ॥ ५ ॥ केशाश्चाष्टगुणितैर्लिक्षा चैका तु सिद्धयति । लिक्षाभिरष्टभिर्युका यूकाभिश्चाष्टभिर्यवः ॥ ६ ॥ तथाष्टगुणितैश्चैव यवैर्मानं प्रसिद्धयति । निर्दोष मानमेतं च स्यात्परमाणुमूलकम् ॥ ७ ॥ उत्तममध्यमाधमं त्रिविधो माननिर्णयः । न्यूनाधिके कृते हस्ते दोषः स्याच्च महाभयम् ॥ ८ ॥ ज्येष्ठं चायवैः प्रोक्तं मध्यमं सप्तभिर्यवैः । स्यात्कनिष्ठं षडूयवैस्तच्चतुर्विंशतिभिः करः ॥ ९ ॥ एवं मानोद्भवो हस्त उदितश्च विधा क्रमात् । अङ्गुष्ठाग्रे पर्वरेखा पुष्पकं त्रिभिरङ्गुलैः ॥ १० ॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात्
॥ ११ ॥
एते अङ्गुलाक्षराणि क्रमतश्चैव संस्थिताः । पुष्पके देवतास्तिस्रः प्रतिष्ठाप्या यथाक्रमम् ॥ १२ ॥ आदौ विष्णु रुद्रो ब्रह्मा मध्ये च संस्थितः । भूर्भुव: स्वजत्रयं स्युराद्यस्वरदेवताः ॥ १३ ॥ ईश्वरो वायुविश्वे च वन्हिर्ब्रह्मा दिवाकरः । रुद्रो यमो विरूपाख्यो वसुरिन्द्रो जलाधिपः ॥ १४ ॥ स्कन्द इच्छा कियाज्ञानं धनदो विजयस्तथा । वासुदेवो बलभद्रः प्रद्युम्नश्चानिरुद्धकः ॥ १५ ॥