________________
वनयात्रा शिलापरीक्षा नाम चत्वारिंशं सूत्रम् ॥
पञ्चाल्यां खेचरा ज्ञेयाः श्वेतवर्णे नरो भवेत् । एतैर्दोषैस्त्यजेलिङ्ग प्रतिमादोषमेव च ॥ १६ ॥ उत्तमाधमवर्णैश्च पाषाणानुपलक्षयेत् । श्वेतश्च पद्मवर्णश्च कुमुदो मुद्गसन्निभः ॥ १७ ॥ पाण्डरो माक्षिकवर्णः कपोतो भृङ्गसन्निभः । श्वेते विप्राश्च वर्द्धन्ते राजन्याः पद्मवर्णके ॥ १८ ॥ वैश्याश्च कुमुदाभेन मुद्रभे शूद्रजातयः । अन्ये तु शेषवर्णेषु वृद्धिमेवं तु लक्षयेत् ॥ १९ ॥ आरोग्यं पाण्डुवर्णेषु माषाभे विजयः स्मृतः । कपोते चार्थवृद्धिश्च भृङ्गाभेषु प्रजाश्रियः ॥ २० ॥ अपराजित उवाच -
यदि तत्प्राप्यते चिह्नं यथोक्तं च द्रुमाः शिलाः । तेषां विधि क्रियायुक्तं कथयस्य परेश्वर ॥ २१ ॥ विश्वकर्मोवाच
पुनश्चेत्प्राप्यते चिह्नमानीत्वा नगरोत्तरे । आरोपयेत्ततो वृक्षं क्षिपेद्र भूमध्यतः शिलाम् ॥ २२ ॥ शिलोपरि स्थण्डिलं च वृक्षं चोत्तरमाश्रितम् । मृत्युंजय जपं चाष्टाधिकं कुर्यात्तथायुतम् ॥ २३ ॥ अष्टोत्तरसहस्रं व हुत्वापामार्गसमिद्भिः । दिक्षु चिन्हैः पूरितं च समुद्धरेत्पुनर्नत्रम् ॥ २४ ॥ अनेन विधिना वत्स उद्धरेच्च शिलाद्रुमम् । अप्रशस्तं प्रशस्तं स्यादनेन विधिनान्वितम् ॥ २५ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छायां वनयात्रा शिलापरीक्षाधिकारो नाम चत्वारिंशत्तमं सूत्रम् ॥
९३