________________
(४०) वनयात्राशिलापरीक्षा नाम चत्वारिंशं सूत्रम् ॥
विश्वकर्मोवाच
लिङ्गा दिशिलानां च सम्प्रवक्ष्यामि लक्षणम् । पूजा पूर्व विधानेन शिलोद्धारं तु कारयेत् ॥ १॥ यो दक्षिणे शिलाभागस्तशीर्ष चोत्तरे पदम् । पूर्वापरक्रमेणैव ह्यपरे शिर उत्तमम् ॥२॥ उद्धरेनु शिलां तत्र पूर्वमन्त्राभिमन्त्रिताम् । बलोकयेच तां प्राज्ञ मन्त्रैश्चापादमस्तकम् ॥ ३॥ पादोज़ कुक्षिदशे च छेदं तत्र समारभेत्। परीक्ष्य सूत्रे चाकारं छेदश्चेत् पुरुषाकृतिः ॥ ४॥ निबिडा निर्बणा तीव्रगम्भीरमधुरान्विता । शीतला च सुगन्धा च मृद्वी तेजसमन्विता ॥५॥ युव-नानी शिला शेया सर्वकामफलप्रदा । पूजिता सर्वलिङ्गेषु हर्चना सर्वशोभना ॥ ६॥ मत्स्यमण्डूकतरला यैतैश्चिन्हैः प्रदृश्यते । वृद्धा सा तु शिला ज्ञेया सर्वकार्यविनाशिनी ॥ ७॥ अतिमृद्धी भवेद बाला मन्दपुष्पकवेष्टिता । टंकघातैः साधनीया छेदाद्यं च परीक्षयेत् ॥ ८॥ विमलैर्दूषिता या तु वर्जयेत्तां शिलां बुधः।। विमलं त्रिविधं शेयं लोहकांस्यजहेमजम् ॥ ९ ॥ लोहविमलैर्दुर्भिक्षमनावृष्टिश्च कांस्यजैः । हेमजैविमलैः पीडा ह्युदितं च त्रिधा क्रमात् ॥ १०॥ छेदने च कृते तस्या मण्डलं यत्र दृश्यते । तद् गर्भितं विजानीयात् जीवशिल्प-विचक्षणः ॥ ११ ॥ माञ्जिष्ठे चैव मण्डूको हरिते कर्कटो भवेत् । पीते गोधा विजानीयात् कृष्णे विद्यादू भुजङ्गमम् ॥ १२ ॥ पलिते मूषको ज्ञेयः कृकलाशश्च श्यामके। अतिरक्तेन वर्णेन चेन्द्रगोपकमादिशेत् ॥ १३ ॥ किंशुकामे तु खघुरोऽतसीपुष्पे पिपीलिकाः । गुडवणे तु पाषाणं कूर्म स्यादापसन्निभे ॥ १४ ॥ भस्माभे तिमिरी शेयो वारला श्वेतभस्मभे । विचित्रे वृश्चिकं विद्यात् खद्योतं मधुवर्णके ॥ १५ ॥