________________
वनयात्रानामैकोनचत्वारिंशं सूत्रम् ॥ शतपत्रं च वैश्या च नृपः कुम्भश्च दीपकम् । वस्त्रयुग्मं फलं छत्र यानं झम्पानमासनम् ॥ १६ ॥ वसुन्धरा धृत्यमानाय ? बहलं धान्यं पत्रादिकम् ? । एतेषु दृश्यमानेषु निष्पत्तिः सुश्रियस्तथा ॥ १७ ॥ तैलाभ्यक्तस्तथाहिश्च मुक्तकेशाः नियस्तथा । काष्ठभारं चाग्रहीनं विधवा गुरुषादिकम् ? ॥ १८॥ उल्कापातो दिशादाहो महावातप्रवर्तनम् । तारापातोऽशनिघातः परितः पांशुवर्षणम् ॥ १९ ॥ एतेषु दृश्यमानेषु न भविष्यन्ति वैश्रियः । न गच्छेत् पदमेकं तु यदीच्छेच्च निवर्तनम् ॥ २० ॥ मेघगर्जनवृष्टी च मत्स्योदयादि शोभनम् । अन्तरिक्षे भवेच्छेदः फलपुष्पनिपातनम् ॥ २१ ॥ वायुकां सुरङ्गिक वागि वामे वृक्ष्याग्रसंस्थिताम् ? । कौशिको वामतः श्रेष्ठो शुभो दक्षिणे तथा ॥ २२ ॥ कणं हारकेयूरी मुकुटं कुण्डलादिकम् । एतेषु दृश्यमानेषु सर्वकामफलं भवेत् ॥ २३॥ एवं शुभैश्च शकुनैः प्रविष्टो वनमध्यतः । वृक्षं सम्पूज्य तु करे कुठारं पूर्वतो धरेत् ॥ २४॥ तत आँ नमोरुद्राय पिङ्गलाय महात्मने । विश्वेदेवा विश्वरूप विश्वकर्मणे वै नमः ॥२५॥ अनेन चैव मन्त्रेण कुठारमभिमन्त्रयेत् । तत्र क्षेत्रं बलिं दद्यात् समय॑ सर्वदेवताः ॥२६॥ तदा च छेदयेदू वृक्षं पतितं चोपलक्षयेत् । ईशानोत्तरपूर्वं च सर्वकामफलप्रदम् ॥ २७ ॥ अशुभश्चान्यदिशायां शाखापातस्तथोच्यते । दिशायां चाप्रशस्तायां तच्छाखां वर्जयेद् बुधः ॥ २८॥ एवं संगृह्यते वृक्षमानयेन्नगरादिके।। वेशयेदुत्तरदिशि वादित्रैर्ब्रह्मघोषकैः ॥ २९ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वनयात्राधिकारो नामैकोनचत्वारिंशत्तमं सूत्रम् ।।