________________
(३९) वनयात्रानामैकोनचत्वारिंशं सूत्रम् ॥
विश्वकर्मोवाच
मेरुश्च मन्दरश्चैव पर्वतो गन्धमादनः । हिमवान् हेमकूटश्च निषधो नील एव च ॥१॥ श्वेतश्च शृङ्गवांश्चैव महाशैला: प्रकीर्तिताः । पते पर्वतराजाश्च महावननदीभवाः ॥२॥ महेन्द्रो मलयश्चैव महाविध्यस्तथैव च । हिमाद्रिः पारियात्रश्च श्रीशैलश्च तथाऽर्बुदः ॥ ३॥ महावनानि ख्यातानि शृणु चोपवनानि च। त्रिधोदितं च क्रमतो वनोपवनकाननम् ॥ ४॥ यत्र देशाश्च विरला वनकूलेषु संस्थिताः । उपवनानि ज्ञेयानि येषु ग्राह्या द्रुमाः शिलाः ॥५॥ कीर्तिमान कीर्तयेद्यत्र रोप्यमाना द्रमैलताः । काननं तच विज्ञेयं नृपक्रीडनहेतुकम् ॥ ६ ॥ कमागतं शम्भुभवं वनोपवनकाननम् । वनयात्रा तु कर्तव्या तेषां कूलसमाश्रितैः ॥ ७ ॥ योग्या: प्रासादप्रतिमालिङ्गगेहादिके तथा । प्रशस्ता दारुशैलाश्च ग्राह्या यत्र सदा स्मृताः ॥ ८॥ अशोकशोकखदिराः कदम्बा देवदारवः । श्रीपर्णास्तिनिशाश्चैव सरलाश्चन्दनास्तथा ॥९॥ भूर्जत्रिमिसश्रेण्यश्च ? शाल्मलीरक्तचन्दनाः । अन्येऽपि बहवो वृक्षा महत्यश्च शिलास्तथा ॥१०॥ संछन्ना बहुभिः पत्रैः प्रदेशा यत्र संस्थिताः । सरित्तीरं समाश्रित्य रविरश्मिविवर्जिताः ॥ ११ ॥ ईशान्यांत वादिनेत्रं पूर्ववातैः प्रपादिताः । अन्यवातैईतायेषु अप्रशस्ताः शुभप्रदाः ? ॥ १२ ॥ सुप्रदेशाः सुसंग्राह्याः सर्वकामफलप्रदाः । अप्रशस्ता अन्यकाले निमित्तं चोपलक्षयेत् ॥ १३ ॥ दिव्यानि चैव भौमानि शुभानि चाशुभानि च। प्रशस्तानि शुभान्यत्र चाशुभानि विवर्जयेत् ॥ १४॥ निमित्तानि गजश्चाश्वो वृषभश्च रथो विदुः। घृतं पुष्पाक्षते विप्रः कन्या रम्भा च गोगः ॥ १५ ॥