________________
विश्वकर्मावलोकितपृथ्वीनवखण्डानि सप्तत्रिंशं सूत्रम् ॥ चतुरशीतिविद्यासु सूत्रकर्मसु कौशला:। धर्मशास्त्रादिनिपुणा भोगयुक्ता विभूतिकाः ॥ १६ ॥ नरा: श्वेताः किंपुरुषे महारूपास्तथा स्त्रियः। युक्ताः केशाद्यलङ्कार रमन्ते कामवन्दकाः ॥ १७ ॥ केतुमाले किनराणां नार्यों रूपसमन्विताः । सर्वे धर्मरताश्चैव त्रिशतायुष्कजीवनाः ॥ १८ ॥ सम्भवे ब्रह्मतेजस्विवेदशास्त्रादिपारगाः। पञ्चशतवर्षायुषः पद्मरागनिभोदराः ॥ १९ ॥ मानदण्डे प्रचण्डाश्च नरा नार्यों ज्ञानोद्भवा: ?। योगीन्द्राश्चायुतायुष्का दिव्या नार्योऽग्नितेजसः ॥२०॥ रम्यके दिव्यरूपाश्च नरा नारीगणास्तथा। देवलोके तत्पराख्या देवरूपानुरूपकाः ॥ २१ ॥ नवक्षेत्रप्रमाणानि क्षेत्राणां क्रमतस्तथा । नवखण्डा इति प्रोक्ता जम्बूद्वीपस्य मध्यतः ॥ २२ ॥ षट खण्डानां च भोक्तारो भवन्ति चक्रवर्तिनः । त्रिखण्डभूमिपो देवः सन्धावर्णवमण्डले ॥ २३ ॥ त्रिखण्डोचे चक्रवर्ती द्विखण्डभुक मतोऽधिपः । एकखण्डे भवेद्राजा शेषाः स्वल्पास्तु राजकाः ॥ २४ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवन देवाचार्योक्तापराजितपृच्छायां विश्वकर्मावलोकितपृथ्वीनवखण्डाधिकारो नाम सप्तत्रिंशत्तमं सूत्रम् ॥