________________
(३७) विश्वकर्मावलोकितपृथ्वीनवखण्डानि सप्तत्रिंश सूत्रम् ॥
विश्वकर्मोवाच
राजेन्द्रस्य पृथोः पूर्वमष्टपुत्रा प्रकीर्तिताः । अष्टवर्षाधिपतय आत्मराज्यं तु मध्यतः ॥१॥ तद्विभक्तानि क्षेत्राणि क्षाराणवस्य मध्यतः। शैलान्तरेषु ख्यातानि क्षेत्राणि नव सङ्ख्यया ॥२॥ इलाक्षं दिव्यकं चैव भारतं हरिवर्षकम् । किंपुरुषः केतुमाल: सम्भवो मानदण्डकः ॥३॥ रम्यकं मध्यक्षेत्रं च मेरुमावृत्य दक्षिणम् । एतानि नवक्षेत्राणि जम्बूद्वीपस्य मध्यतः॥४॥ मन्दरो हेमकूटाख्यो निषधः श्वेतपर्वतः। एतन्मध्ये रम्यकं च मेरुमावृत्य दक्षिणम् ॥५॥ मन्दरगन्धमादनमध्ये चेलावृतोद्भवः । गन्धमादनोदयाद्रिमध्ये दिव्यकमुच्यते ॥ ६॥ हिमवद्धेमकूटान्तर्वर्षों नाम्ना हरिस्तथा । त्रिकूटहिमवदन्तर्वर्षों भारत उच्यते ॥७॥ निषधनीलयोर्मध्ये किम्पुरुषो नासोत्तमः । नीलाम्बुध्योर्मध्यतश्च केतुमालश्च नामतः॥ ८॥ निषधनीलयोर्मध्ये किम्पुरुषः नानोत्तमः ।। नीलाम्बुध्योर्मध्यतश्च केतुमालश्च नामतः ॥ ९॥ श्वेतशृङ्गवतोर्मध्ये रम्यको नाम नामतः । शृङ्गवद् द्वीपशैलान्तर्मानदण्डसमुद्भवः ॥१०॥ शुद्धस्फाटिकसंकाशा दिव्याभरणभूषिताः। चन्द्रकान्त्यमृताहारा नरा नार्योऽयुतायुषः ॥ ११ ॥ इलावतें ज्ञानयुता नरानारीस्वरूपिणः । अथातो दिव्यवर्ष च कथयामि समासतः ॥ १२ ॥ धूलिता भस्माङ्गरागाः क्रूरा उग्रा मलीकृताः । जटामुकुटशोभाढ्या दिव्यक्षेत्रेऽयुतायुषः ॥ १३॥ शतायुषो हरिवर्षे बौद्धाख्या हीनतेजसः। गौरश्यामा नरा नार्यो बुद्धधर्मप्रपालकाः ॥ १४ ॥ श्यामा गौराश्चतुर्वर्णा भरते च शतायुषः । देवाग्निगुरुभक्ताश्च वेदशास्त्राादपारगाः ॥ १५ ॥