________________
महापर्वतप्रमाणं षट्त्रिंशं सूत्रम् ॥ क्षेत्रसीमा प्रमाणाख्यं मेरुमावत्य दक्षिणैः।। शैलान्तरेषु क्षेत्राणि कथयामि समासतः ॥१६॥ उदयाद्रिश्च पूर्वे तु त्रिकूटः स्यात्तु दक्षिणे।। महाविध्योऽपरे चैवं द्वीपशैला: पूर्वोत्तरे ॥ १७॥ तेषामन्ते समुद्राश्च संस्थिताः स्युः प्रदक्षिणम् । तेषामन्ते पुन:पो द्वीपान्ते चैव सागराः ॥ १८॥ सप्तद्वीपा: समुद्राश्च क्रमेणापि सुसंस्थिताः। जम्बूद्वीपप्रमाणेन द्विगुणा द्विगुणोत्तराः ॥ १९ ॥ इयं युक्तिर्विधातव्या द्वीपे द्वीपे तु शैलजाः ? । संस्थिताः क्रमयोगेन पूर्वापरयाम्योत्तरे ॥ २० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
महापर्वतप्रमाणाधिकारो नाम पट्त्रिंशं सूत्रम् ॥