________________
(३६) महापर्वतप्रमाणं षट्त्रिंशं सूत्रम् ॥
विश्वकर्मोवाच
जम्बूद्वीपप्रमाणं च विस्तारे लक्षयोजनैः। तस्यान्ते वृत्तपरिधी समस्तं च क्षीरार्णवम् ॥ १॥ क्षेत्राणां क्षेत्रमानं च पर्वताश्च मेघोपमाः। महापर्वतोद्भवाश्चाप्रमाणा मानवर्जिताः ॥२॥ जम्बूद्वीपस्य मध्ये तु मेरुश्च पर्वतो महान् ।। स्थितौ मेरोः पूर्वतश्च मन्दरो गन्धमादनः ॥३॥ हिमवान् हेमकूटश्च महाशैलस्य दक्षिणे। पश्चिमे पर्वतौ रम्यौ निषधो नील एव च ॥४॥ श्वेतश्च शङ्गयांश्चैव मेरोरुत्तरतः स्थिती। एते चाष्टकुला रम्या दिक्षु चैवं व्यवस्थिताः ॥५॥ देशे समुद्रोपकण्ठे महाशैलाः पुरोभवाः । उदयाद्रिमहाशैलः पूर्वायां च बलादिषु? ॥६॥ वारुण्यां तु महावृद्धस्त्रिकूटाख्यश्च दक्षिणे। उत्तरे द्विपशैलाख्यः संस्थिताः स्युरनुक्रमैः ॥ ७ ॥ द्वयष्टसहस्त्रमध्यस्थ: सप्तपातालतो भवः।। सपनकर्णिकाकारैर्मेरु; काञ्चनकन्दरैः ॥ ८॥ योजनैर्दशसाहस्त्रैः पृथुत्वं मेरुमस्तके। द्वात्रिंशद्भिः सहस्रैश्च जम्बूद्वीपस्य मस्तके ॥९॥ मन्दरो हेमकूटश्च निषधश्च श्वेताचलः। भदण्डवत्प्रमाणाश्च सहस्त्रयोजनोचिछताः ॥ १०॥ हिमवान् शृङ्गवांश्चैव नीलो वै गन्धमादनः । प्रमाणं योजनः ख्यातं सार्धद्वयं समुच्छ्तेिः ॥ ११ ॥ मन्दरस्य तुलोदयाक्ष चतुराशी त्रिकूटो द्युतः ? । महाविन्ध्योदयतुल्यः शैलोऽन्यस्त्रिकूटस्तथा ॥ १२ ॥ उच्छ्यो द्विगुणस्तारात् तदर्ध मध्यतुङ्गता । एवं मानं च शैलानां कथितं त्वपराजित ॥ १३॥ मन्दरो गन्धमादश्च याम्योत्तरे च दण्डवत् । हिमवान् हेमकूटश्च पूर्वापरे स्थितौ तथा ॥ १४ ॥ उत्तरे ? नीलनिषधौ श्वेतशङ्गी पूर्वापरौ!। कुलाचलाश्च कर्णस्था विदिशोद्भवसागरैः? ॥१५॥