________________
एकविंशतिस्वर्गा नाम पञ्चत्रिंशं सूत्रम् ॥ बाहात: सप्तलोकानां शिवलोकस्तदूर्ध्वतः । इत्युच्छ्तेि महामेरौ स्वर्गा एवं सुसंस्थिताः ॥ ३२॥ लोकाश्च सप्त चाख्याता मृत्युलोके द्वीपार्णवाः।। पाताला: सप्तधा चैव त्रैलोक्यमिति प्रोच्यते ॥ ३३ ॥ एकविंशतिस्त्रैलोक्ये स्थिताः स्वर्गा यथाक्रमम् । ऊच चैव भवस्थानं पात्रे पात्रमिवापरम् ॥ ३४ ॥ मध्ये च जम्बुद्वीपस्य प्रमाणमपि कथ्यते । मेर्वाद्या मुख्यशैलाश्च क्षेत्राणिं च समासतः ॥ ३५॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाया
मेकविंशतिस्वर्गाधिकारो नाम पञ्चत्रिंशत्तमं सूत्रम् ॥