________________
अपराजितपृच्छा तले तु पद्मको राजा वितले स्यात्कर्कोटकः । सुतले पुण्डरीकश्च नितले स्यात्तु तक्षकः ॥ १६ ॥ तलातले आनकश्च शङ्खचूडो रसातले । वासुकिर्नागराजन्द्रः पाताले सर्वतोऽधिपः ॥ १७ ॥ एकैके नवकुलकास्त्रिषष्टिः कुलपन्नगाः । सप्तपातालतश्चोय द्वीपाः स्युर्तीपत: परे ॥१८॥ जम्बूः प्लक्षः कुशः क्रौञ्चः शाक; शाल्मलिकस्तथा । सप्तमः पुष्कराख्यश्च सप्तद्वीपा तु मेदिनी ॥ १९ ॥ नृपाभिधानतः प्रोक्तं सप्तद्वीपाभिधानकम् । पुष्कराख्यो महाराजा द्वीपे सप्तमकेऽधिपः ॥२०॥ गोमेदेशश्च गोमेदः शाल्मलिके च शाल्मलिः । शाकस्तु शाकद्वीपेशः क्रोश्चः क्रौञ्चाधिपस्तथा ॥ २१ ॥ कुशेशस्तु कुशः प्रोक्तो महोत्कटो महाबलः । महाविक्रमभूपालाः संस्थिता मेरुदक्षिणम् ॥ २२ ॥ मेरुदक्षिणकुक्षौ च महाजम्बुतरूद्भवः । यस्य नाम्ना तु विख्यातो जम्बुद्वीपः स उच्यते ॥ २३ ॥ एकछत्रं पृथो राज्यं जम्बुद्वीपे प्रकीर्तितम् । क्षीरार्णवमध्ये चैवं पृथुत्वं लक्षयोजनः ॥२४॥ समस्ताः समभूयास्तु प्रयुक्ता द्वीपसागराः । अभिधानानि चैतेषां कथ्यन्ते त्वपराजित ॥ २५ ॥ क्षारोदं चैव क्षीरोदं सागरौ दधिसर्पिषोः । मध्विक्षुदं तथा ख्यातं रसोदं सप्तमं तथा ॥२६॥ सप्तैते द्वीपान्तरेषु स्थिता मेरुप्रदक्षिणम् । सप्तद्वीपार्णवाश्चैवं सृष्टिकाले समुद्भवाः ॥ २७ ॥ भुवोकश्च स्वर्लोको महलोंकस्तथा जनः। तपश्च सत्यलोकश्च ज्ञानलोकश्च सप्तमः ॥२८॥ इत्येकविंशतिस्वर्गा अधिरचित ? शम्भूद्भवाः । सृष्टिकाले सुदृष्टाश्च स्वर्गाणामेकविंशतिः ॥ २९ ॥ पातालाश्च ब्रह्मभागे सप्तवं तु सुसंस्थिताः। तदूधै सप्त चाख्याता विष्णुभागे द्वीपार्णवाः ॥ ३०॥ पुष्करोवें भुवलोकः स्वर्लोकश्च तदूर्धतः । तथा चैवमन्यलोका; शम्भुभागे व्यवस्थिताः ॥ ३१॥