________________
(३५) एकविंशतिस्वर्गा नाम पञ्चत्रिंशं सूत्रम् ॥ विश्वकोवाच
पुष्पकं तु समारुह्य मेरुमाश्रित्य दक्षिणम् । विलोकिता भूतधात्री समुद्रान्ता च मेदिनी ॥ १॥ अथातो भूतधात्रीणां प्रमाणं च प्रवक्ष्यते । विष्कम्भः परिधिश्चैव बाहुल्यं- - -शृणु ॥२॥ योजनानि तु विष्कम्भो दशकोट्यः प्रकीर्तितः। लक्षस्याने सहस्राणामेकोनाविंशतिस्तथा ॥३॥ विष्कम्भे च त्रिगुणिते तदश्यांशसमन्विते । परिधिश्च समस्तोऽसौ समुद्रान्तक्षितेः स्मृतः॥४॥ एकविंशतिकोटीनां सप्तलक्षाणि चाग्रतः। ततः परं सहस्राणि सङ्ख्यया सप्तविंशतिः ॥५॥ एवं समस्तपरिधिर्वृत्ताकारा व मेदिनी । त्रैलोक्यमध्ये चैवं सा तलाद्याश्चैव बाह्यतः ॥ ६ ॥ एकविंशतिस्वर्गाश्च मेरुमावृत्य दक्षिणम् । परितश्चार्णवाः सप्त रचिताश्च समस्तकाः ॥७॥ तलश्च वितलश्चैव सुतलो नितलस्तथा । तलातलो रसातल पाताल: सप्तमस्तथा ॥ ८॥ आदौ मेरुः क्रमोद्भूताः पाने पात्रमिवापरम् । . एते च सप्तपाताला: सृष्टिकालसमुद्भवाः ॥९॥ उद्भतश्चादितो मेरुसिहस्रश्च योजनैः । द्विद्विसहस्रान्ते पुन: पाताला: सप्तधोदिताः ॥१०॥ अधस्तात्तु तथा द्वयष्टसहयोजनैर्गतः । मेरुवै चतुरशीतिसहस्रयोजनोच्छूितः ॥ ११ ॥ पृथगेकैकपाताले नवनागकुलानि च । नवकानि सप्त वेत्थं त्रिषष्टिः कुलपन्नगाः ॥ १२॥ प्रोक्तानि पृथगेवं च नवनागकुलानि च । उरगा: सप्तपातालसंस्थिताः सप्त वै क्रमात् ॥ १३ ॥ पद्मः कर्कोटकश्चैव पुण्डरीकोऽथ तक्षकः । आनकः शङ्खचूडश्च बासुकिः सप्तमस्तथा ॥ १४ ॥ सप्तपातालाधिराजा महोत्कटमहाबलाः । रौद्राश्च विद्रुताः सर्वे हगण्या वीरविक्रमाः ॥ १५ ॥
११ अ.