SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अपराजितपृच्छा निघण्टुश्च व्याकरणं छन्दोलङ्कारसंयुतम् । मनुसाध्यसमुद्भूतं संसारपाशछेदनम् ॥ १६ ॥ मुक्तिमार्गरहस्यं च कथितं भक्तवत्सलैः । तुर्योऽयं मानसः पुत्रः पृच्छति त्वपराजितः ॥१७॥ अपराजित उवाच अस्मश्चित्ते प्रबोद्धव्यं जयाय पृच्छते च यत् । विजयश्च सिद्धार्थश्च पृच्छायां यत्तथैतयोः ॥ १८ ॥ भवान् पुष्पकमारुह्य प्रोक्तवान् यदनुग्रहात् । पूर्व सर्व प्रसादेन कथयस्व जगत्पते ॥ १९ ॥ पुष्पकं तु समारुह्य मेरुमार्गप्रदक्षिणम् । अवालोकि तथा चैषा समुद्रान्ता च मेदिनी ॥ २०॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां जयविजयसिद्धार्थपृच्छाधिकारो नाम चतुस्त्रिंशं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy