________________
(३४) जयविजयसिद्धार्थपृच्छा नाम चतुत्रिंशं सूत्रम् ॥ अपराजित उवाच
जयपृच्छागमश्चैव कस्मिन् स्थाने जगत्पते । विजयपृच्छागमश्च कुत्रस्थाने बभूव च ॥१॥ सिद्धार्थपृच्छागमश्च किं स्थाने च तथाभवत् ।
एवमस्मत् प्रसादं तु कुरु शास्त्रार्थकौशल ॥२॥ विश्वकोवाच
ततो हिमवतः पृष्ठे ब्रह्मलोकात्समागतौ । शुङ्गाकुले धवनाकीर्ण हिमवन्तश्रियोद्भवे ॥३॥ नैकगुहाधमरम्ये गन्धर्वगणसेविते । सिद्धामरकुलाकीर्णे क्रीडामणिगुहागृहे ॥४॥ जयः पृच्छति तत्रेदं वास्तुविद्योद्भवं तदा । तदिदं कथनीयं च शृणु संवादमुत्तमम् ॥५॥ चतुर्विशतिसाहस्रसङ्ख्यग्रन्थस्तदा कृतः। लिङ्गपीठा निलयवेश्मराजवेश्मादिकम् ॥ ६॥ पुरप्राकारपरिखाप्रतोलीमार्गगोपुरम् । अन्योपस्करजातानि वास्तुवेदोद्भवानि च ॥७॥ जयपृच्छादिशास्त्रं च विश्वकर्मप्रभाषितम् । जयस्य कथितं चैतदू भक्तिवात्सल्यत: पुरा ॥८॥ हेमकूटे महाशैले शतयोजनमुच्छ्रिते। विरूपाख्याश्रमे रम्ये विचित्रशिखरोद्भवे ॥९॥ नानाद्रुमलताकीणे रलधातूपशोभिते । सुरविद्याधरारम्ये गन्धर्वगणसेविते ॥ १०॥ विजयेन ततः पृष्टो वत्साहं भक्तवत्सलः । श्लोका विजयपच्छायां सहस्राणि च द्वादश ॥ ११ ॥ ततधनमुरजादिवादित्रैर्विविधैस्तथा। लास्यहास्यताण्डवाद्यैस्तालमूलसमुद्भवाः ॥ १२॥ सप्तस्वरात्रयो ग्रामा मूर्छनास्त्वेकविंशतिः। ताना एकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥ १३ ॥ रागाः षट् समुत्पन्नाः षट्त्रिंशश्चैव तस्त्रियः। एतत्सर्वं विजयस्य कथितं भरताभिधम् ॥ १४ ॥ मन्दरस्थं सुखासीनं सिद्धार्थः पृथ्वान पुरा। तालुकण्ठस्वरशास्त्र गणितं ज्योतिषं तथा ॥१५॥