________________
७८
अपराजित पृच्छा
जयो विजय आख्याताः सिद्धार्थस्त्वपराजितः । ततो हिमवतः पृष्ठे भूर्लोके तु समागताः ॥ १५ ॥ पृथिवी प्रेषिता स्थाने संबोध्य भूतधारिणि । विना कष्टं त्वया ग्राह्यं कारयिष्ये तु निश्चलाम् ॥ १६ ॥
नृपश्च प्रेषितः स्थाने पृथुः सम्बोधितस्तथा । यथामरावती चैव त्वदर्थे मेदिनी कृता ॥ १७ ॥ पृथो चागम्य स्वस्थाने यावत्त्वं पालयेर्महीम् । निर्जलान् सजलान् देशांस्तावत्त्वमवलोकय ॥ १८ ॥ पुष्पकेऽस्माकमारुह्य मेरुमावृत्य दक्षिणम् । आलोकय भूतधात्रीमा समुद्रान्तमेदिनी ॥ १९ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचा यक्ता पराजित पृच्छायां पृथुपृथिवीसंवादे विश्वकर्मभूर्लोकागमनाधिकारो नाम त्रयस्त्रिंशत्तमं सूत्रम् ॥