________________
(३३) पृथुपृथिवीसंवादे भूलॊके विश्वकर्मागमनं
त्रयस्त्रिंशं सूत्रम् ॥
विश्वकर्मोवाच
शणु वत्स महाप्राज्ञ संवादं च पृथोः क्षितेः। जम्बूद्वीपे पृथो राज्यमेकच्छवं समस्तकम् ॥ १॥ तेनावलोकिता चैव समुद्रान्ता च मेदिनी । पर्वतैः स्थलजैः सर्वैः सूत्रारम्भे समीकृता ॥२॥ रसया सर्वबीजानि ह्यात्मन्येव धृतानि च । प्रजाश्च क्लेशितास्तस्माद् गृहीतात्मेच्छया तु सा ॥ ३॥ तदुच्छेदे समारब्धे निःसता सा भयातुरा । ततः पृथ्वी भयोद्विग्ना पृथोश्च पृथिवीपतेः ॥ ४॥ तथागताऽब्रवीत्तत्र यत्र तो परमेश्वरौ। रक्ष रक्ष महाभूत त्वमेव शरणं प्रभो ॥५॥ पृष्ठतश्च ततः प्राप्तः पृथुर्वाणधनुर्धरः । ब्रह्मणश्चायत: स्थित्वा धनुर्वाणौ निवेदितौ ॥ ६ ॥ भूराज्यं च समस्तं च हर्पितं ते हितैषिणः । अस्माभिश्च परित्यक्ता सम्प्राप्ता चाऽत्र मेदिनी ॥ ७ ॥ धनुर्वाणौ स्वर्पयित्वा पृथुस्त्वं पृथिविपतिः । मा भीस्त्वं वत्स राजेन्द्र राज्यं च तव मेदिनी ॥ ८॥ धरित्री कम्पिता तत्र ब्रह्मा प्रोवाच सान्त्वयन् । मा भीर्धरे च पुत्री त्वं ज्ञातं कष्टं निवेदितम् ॥९॥ पृथो शृणु त्वं राजेन्द्र स्वयं रुद्रस्तु विश्वकृत् । करिष्यति द्वयोर्योग्यं धात्री स्यादमरावती ॥१०॥ त्वत्पाबें पुत्रि बीजानि तिष्ठन्त्वाकल्पमेव च। विषया रक्षणीयाश्च विश्वेश्वर तथा त्वया ॥ ११ ॥ पालनीयावुभौ स्वेवं पृथू राजा च मेदिनी । विश्वज्ञ हस्तकर्तस्त्वं श्रियमाधत्स्व चेतयोः ॥ १२ ॥ उभावेवं च स्थाप्येतां विश्वकर्मन् जगत्पते । ब्रह्मणे च तथोभाभ्यां करयुग्मे च योजिते ॥ १३ ॥ विश्वकर्मा समुत्थाय चतुर्भिर्मानसैः सुतैः। संस्थितः पुष्पविमाने पृथु धरे च मानसे ? ॥ १४ ॥