________________
७६
अपराजितपृच्छा तस्मै तदासनं दत्त्वा स्थितावासनयोरुभौ । चत्वारो मानसाः पुत्रा विश्वकृत्पार्श्वत: स्थिताः ॥ १४ ॥ एकैके च यथाशक्ति स्वयं वै सष्टिकारकाः।
जयो विजय आख्याता: सिद्धार्थश्चापराजितः ॥ १५॥ ब्रह्मोवाच
स्वयं रुद्रस्त्वमाख्यातो मया सृष्टो महेश्वरः। न्यूनाधिका तथा सृष्टिं पूरयामि च साम्प्रतम् ॥ १६ ॥ स्वयं रुद्रो विष्णुः शिवो मम सृष्टिकृतोऽभिधाः। त्रैलोक्येऽमरपदं च सृष्टव्यं विश्वकर्मणा ॥ १७ ॥ त्रैलोक्ये चामरपदं सृष्टव्यं विश्वकर्मणा । जानासि त्वं विश्वकर्मन् न किं ब्रह्मसमुद्भवम् ॥ १८ ॥ भुवनसृष्टयादिदेवो भुवर्देवस्स उच्यते । समीपगताथ तत्र पृथिवी तु भयातुरा। तत्पृष्ठतश्चागतो वै पृथुश्च पृथिवीपतिः ॥ १९॥ इत्युक्त विष्णुमाख्यातं ? विश्वकर्म प्रकथ्यते । पक्षिराज समारुह्य शङ्खशाङ्गादिधारिणम् ॥२०॥ सप्तकोटिगणैर्युक्तविमानैश्चैव संकुलम् । सिद्धचारणगन्धर्वैर्ऋषिभिः परिवेष्टितम् ॥ २१ ॥ सुरदुन्दुभिसंनादैनैकवादित्रसंकुलम् । पुष्पकैशछत्रमाच्छाद्यं पृथिव्यान्तक्षीरार्णवम् ॥ २२॥ अकस्मादागतो विष्णुर्ब्रह्मलोकेऽमृतार्णवात् । गन्धमादनशैलेन्द्र विश्वकर्मा जगत्पतिः ॥ २३ ॥ पुनः पृच्छति तं पुत्र: कनिष्टस्त्वपराजितः । विश्वकर्मा पुनर्वाक्यं श्रुत्वोवाच मुनीन्द्रकः ॥ २४ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
विश्वकर्मावताराधिकारो नाम द्वात्रिंशत्तम सूत्रम् ।।