________________
(३२) विश्वकर्मावतारो नाम द्वात्रिंशं सूत्रम् ॥
विश्वकर्मोवाच
नमस्कृत्वा सोमनाथमज्ञानां शानदो भवान् । तव प्रसादाद् देवेश तथाऽस्माभिश्च दृश्यते ॥१॥ कथं चान्यब्रह्माण्डसृष्ट्युत्पत्तिप्रलयादिकम् । ब्रह्मा विष्णुः शशी सूर्य इन्द्राग्नी चान्यसम्भवः ॥२॥ कुतं देवदेवेश प्रसाद पार्वतीपते ।
झानोपदेश सन्देहच्छेदनं च जगत्प्रभो ॥३॥ ईश्वर उवाच
पूर्व ब्रह्मभवा सृष्टिर्जगत्स्थावरजङ्गमम् । समांशेन समुत्पन्नावुभौ ब्रह्मा तथा हरिः ॥ ४॥ ब्रह्मा तु सष्टिकर्ता च पालकस्तु जनार्दनः।। तस्मात्तथाऽपरे नैव ब्रह्मविष्णुसदाशिवाः ॥५॥ गन्तव्यं ब्रह्मलोकेषु यत्र तौ परमेष्ठिनौ । तत्रोद्भूता च या सृष्टिस्त्वमेवाग्रतो भवेत् ? ॥ ६ ॥ पुष्पकारूढः स्रष्टा च युक्तः पुत्रैश्च मानलैः। जयश्च विजयश्चैव सिद्धार्थश्चापराजितः ॥ ७॥ पुष्पकस्य च स्रष्टा वै स्वयं त्वं सृष्टिसम्भवः । पुष्पविमानमारूढा छत्रादिझल्लरीयुतम् ॥ ७-१॥ कलशकनकदण्डै रत्नैर्नेकैर्विभूषितम् । घण्टारवकोपेतं वै नैकविद्याधराकुलम् ॥ ७-२॥ तरुणादित्यसंकाशं तप्तकाञ्चनसप्रभम् । प्रभासक्षेत्रसम्भूतं द्वितीयमिव भास्करम् ॥ ८॥ विष्णुः शक्रश्च सूर्यश्च स्वामी चैव गणाधिपः । रुद्रतेजःसमुद्भताः स्वयं वा सृष्टिकर्मणा ? ॥९॥ जटामुकुटशोभात्यः कुण्डलाभ्यामलङ्कृतः। चतुर्भुजो महातजा दिव्यहंसकवाहनः ॥ १०॥ अक्षसूत्रं करे याम्ये वामे चैव कमण्डलुः । पुस्तकं वामहस्तोर्चे दक्षोर्चे कम्बिका तथा ॥ ११ ॥ विश्वकर्मा सदागौरस्तेज:पुञ्जसमुद्भवः । बृहस्पते गिनेयस्तेजःकूट इवापरः ॥ १२ ॥ सम्प्राप्तो ब्रह्मलोके तु महौजा विश्वकर्मकः । ब्रह्मणा चासनं त्यक्त्वा करयुग्मं च योजितम् ॥ १३॥