________________
अपराजितपृच्छा
शिवा शान्ता सिद्धिदा च जया चैव मनोरमा। कान्ताल्हादा च सौम्या च शुभा स्यात्तु मणिप्रभा ॥ ३० ॥ विश्वा विश्वकूदुद्भवा चेत्थं नामानि द्वादश । मार्गादि कार्तिकान्तं च कृष्णपक्षे चतुर्दशी ॥३१॥ मार्गपोषयोर्मध्ये च शिवा स्वर्गादिभोगदा। पौषमाघयोर्मध्ये च शान्ता कल्याणकारिणी ॥ ३२ ॥' माघफाल्गुनयोर्मध्ये सिद्धिदा सर्वसिद्धिदा। ख्याता जया फाल्गुनान्ते विजयस्वर्गराज्यदा ॥ ३३ ॥ मनोरमा च चैत्राय॑ मनोरथप्रदायिनी। वैशाखज्येष्ठयोर्मध्ये कान्ता च स्वर्गभुक्तिदा ॥ ३४ ॥ ज्यष्ठाषाढयोर्मध्ये च आल्हादाऽऽल्हाददायिनी । आषाढार्धे तथा ख्याता सौम्या देवत्वदायिनी ॥ ३५ ॥ धावणार्धे शुभा ख्याता तेज:सौभाग्यवर्धिनी। मणिप्रभा भाद्रपदे संसारे च मणिप्रदा ॥ ३६ ॥ आश्विने च तथा मासे विश्वा त्रैलोक्यतोषदा । कार्तिक कृष्णपक्षे तु तथा विश्वकृदुद्भवा ॥ ३७ ॥ तास्तु समस्तदेशेषु दीपोत्सवसमुद्भवाः । कैलासे च पुरेरम्ये विख्याताश्च महीतले ॥ ३८॥ शिवरात्रिसमं पुण्यं नास्ति यशसहस्रकैः। मासे मासे कृष्णपक्षे या भवेश्वं चतुर्दशी ॥ ३९ ॥ शिवरात्रिस्तु सा शेया व्रतानामुत्तमोत्तमा । त्रिरूपा कृष्णवर्णा सा देवी कल्याणवर्द्धिनी ॥४०॥ ललाटे मुकुटे लिङ्ग कर्णयोः स्कन्धयोस्तथा । प्रकोष्ठे मणिबन्धे च कण्ठे ऊर्वोः स्तने तथा ॥४१॥ मेखलायां कटिंसूत्रे कटिमालादितस्तथा । लिङ्गाधारमयाः सर्वे ऊ : करपुटैः कृताः ॥ ४२ ॥ तद्रपा शिवसामर्थ्यात् शिवरात्रिः शिवशालना। द्वादशोद्भवन्ति मत्य नाम्नैवं शिवरात्रयः ॥ ४३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां विष्णुवाक्योद्भवसोमनाथोक्तद्वादशशिवरात्रिनिर्णयाधिकारो नामैकत्रिंशं सूत्रम् ॥