________________
७३
विष्णुवाक्योद्भवसोमनाथोक्तद्वादशशिवरात्रिनिर्णयो नामैकत्रिंशं सूत्रम् ॥ कार्तिक्यां कृष्णपक्षे तु दीपोत्सवसमुद्भवः । महोत्सवास्तथा पञ्च तृतीयां यावनोदिनी? ॥ १५ ॥
स्वयं साक्षाद् रुद्रमूर्तिर्विश्वकृद् विश्वशेखरः । विश्वकर्मोवाच
दीपोत्सवः कथं देव किमर्थश्च तदुद्भवः।
सुरोरगासुरनराः कुर्वन्ति कथमुत्लवम् ॥ १६ ॥ ईश्वर उवाच
द्वादशदीपोत्सवानां श्रेष्ठाः स्युः कार्तिकादितः । शिवरात्रयो द्वादश व्रतानामुत्तमा मताः ॥ १७ ॥ आद्या मार्गशिरे कृष्णचतुर्दश्यां तिथौ भवेत् । त्रयोदश्यामेकभोजी झुपोण्या च चतुर्दशी ॥ १८ ॥ स्नानं कृत्वा चोदकेन यस्तिष्ठेलिङ्गमाश्रितः । दिनान्ते च निशाप्राप्तौ कुर्याद वे दन्तधावनम् ॥ १९ ॥ ततः शिवालये गत्वा पुष्पधूपादिसंयुतः । पञ्चामृतैः स्नापयित्वा धूपैर्वै लेपनादिभिः ॥ २० ॥ पूजां कृत्वा त्रिरात्र्यन्तं स्तोत्रमन्त्रकगीतकैः। वादित्रैर्विविधैश्चैव स्वेच्छया चात्मशक्तितः॥ २१॥ स्वयंभुवि तथा बाणे घाट्ये स्वगृहलिङ्गके । यामे यामे गते रात्रौ पूजां कृत्वा महोत्सवम् ॥ २२॥ शिवराज्युत्सवे चाल्यं शिवं स्तुत्वा समस्तकम् । पुराणश्रवणं कृत्वा दानं चैव समानयेत् ॥ २३ ॥ प्रतियामोत्लवं कृत्वा स्वगृहं भावतो व्रजेत् । दन्तधावनस्नानार्चाः कृत्वा चैव महोत्सवम् ॥ २४ ॥ अग्निपूजां ततः कृत्वा दत्त्वा चाहुतिपञ्चकम् । द्वे द्वे कृत्वा मण्डले च बाह्ये मध्ये गृहेऽ थवा ॥ २५ ॥ आत्मपादौ च प्रक्षाल्य तापसानां तथैव च । भुक्तिस्थानं गृहमध्ये मण्डलेषु प्रदीयते ॥ २६ ॥ सम्प्राश्य शिवनैवेद्यं ततो दद्यात्तु भोजनम् । भोजनानन्तरं दद्याद् दक्षिणां वस्त्रसंयुताम् ॥ २७ ॥ यज्ञोपवीतं पट्टे च पादुकां छत्रसंयुताम् । क्षमापयेच्छिवं देवं मठं संप्राप्य तापसम् ॥ २८ ॥ एवमुक्ता कृष्णचतुर्दशी मार्गशिरादिका । मार्गादि कार्तिकान्तं च तासां नामानि द्वादश ॥ २९ ॥
१.
अ.