________________
(३१) विष्णुवाक्योद्भवसोमनाथोक्तद्वादशाशिवरात्रिनिर्णयो नामैकत्रिंशं सूत्रम् ॥
विष्णुरुवाच -
ततश्चानन्तरं वत्स प्रभासे भुक्तिमुक्तिदे । कृत्वा सोमेश्वरे भक्तिं पूजा स्यान्तु महोत्सवः ॥ १ ॥ चन्दनागुरुकङ्कोलकर्पूरैः कुङ्कुमादिकैः । पञ्चामृतादिस्नानैश्च धूपाद्यैश्च सुगन्धिभिः ॥ २ ॥
मन्त्रस्तोत्रगीतवाद्यैर्नृत्यैश्च सुरयोषिताम् । इन्द्राद्याश्च सुराः सर्वे ब्रह्माद्याश्च मुनीश्वराः ॥ ३ ॥ विष्णु भगवान् देवो मरीचिः काश्यपो गणाः । सूर्याद्याश्च महाचैव तथा चैवं गणोत्तमाः ॥ ४ ॥
अष्टौ च वसवः सिद्धा वासुक्याद्याश्च पन्नगाः । पृथिव्यां यानि तीर्थानि पार्थिवाश्चैव भूतले ॥ ५ ॥
पातालस्वः सप्तके च पृथिव्यां सप्तकं तथा । आनीताश्च यो लोकाः सुरासुरनरोरगैः ॥ ६ ॥ प्रभासेन कृता पूजा देवदेव जगद्गुरोः । तुष्टः प्रभासं देवेशः पुत्रत्वं समुपागमत् ॥ ७ ॥ वाचस्पतेर्भागिनेयं वसुहृन्नन्ददायकम् । प्रोवाच वचनं पुत्र एकादश ममांशकाः ॥ ८
सोमनाथः प्रभासश्च कर्दमः शशिभूषणः । निष्कदाख्यः सहस्राक्ष ऋणमुक्तिः पापान्तकः ॥ ९ ॥
अर्कस्थास्यमनार्कस्वरं ? तवपुत्रा एकादश । एकादशैते रुद्राश्च प्रभास क्षेत्रसम्भवाः ॥ १० ॥ विश्वकृद् विश्वकर्मा च त्वष्टा स्याद् देववर्धकिः । भूर्भुवर्भुवनेशश्च तथा भुवनदेवकः ॥ ११ ॥ पुनरुच्चार्य नामानि विश्वेशः त्रिदशेश्वरः । विश्वश्च विश्वनिरतस्स्वयं च सृष्टिकोद्भवः ॥ १२ ॥ नासत्यावश्विनौ दौ प्रोक्तौ देवचिकित्सकौ । जगत्कर्ता च रुद्रश्च प्रभासो वसुनन्दनः ॥ १३ ॥ सृष्टा च सर्वशिल्पानां जगन्नेत्रस्तदुद्भवः । चतुर्दश्यां समुत्पन्नः स्रष्टा विश्वपतिस्तथा ॥ १४ ॥