________________
विष्णुवाक्योद्भवारण्ये श्रीसोमेश्वरनिर्णयो नाम त्रिंशं सूत्रम् ॥
तापस उवाच
अहं सोम जगकर्ता वैरं स्यात्तु लड़ाधिपे । स्वद्भक्याऽऽगतोऽहं वत्स चन्द्रनामाऽवतारतः ॥२८॥ योगावस्थास्थितस्त्वेवं चिन्तात्मा रोहिणीपते । उदकोल्लङघनं कृत्वा ऐन्द्रीं गतो दिशां प्रति ॥ २९ ॥ कैलासालिङ्गमानीय दानवेन्द्रो लाधिपः । आगमिष्यामि ! क्षेत्रेषु तस्य वाचा प्रबलोद्भवम् ? ॥ ३०॥ ददामि ते त्वहं सोम सोमे वदति दुर्धरः । क्षणार्धे तु धृतं विप्र यदाहं भो क्षितौ ततः ? ॥३१॥ गृहीत्वा सोमराजेन्द्रो लड्जवधि वनैः स्थितः। उक्त लिङ्गं तु राजेन्द्र क्षितो भूत्वा तु निश्चलम् ? ॥ ३२ ॥ पूजितं लिङ्गराजेन्द्र लावधि स्वस्थचेतसा?। सोमाभिधानदेवत्वं सोमनाथ इति श्रुतम् ॥ ३३ ॥ शशाडू मुकुटे धृत्वा तन्नाम शशिभूषणः । ईश्वर: सोमनाथाख्योऽवतरित: सोमेश्वरः ॥ ३४ ॥ तदा सुरतरोवत्स प्रभासे भक्तिस्वागतः। जगन्नाथ: सोमनाथस्त्रैलोक्ये चाऽपि दुर्लभः ॥ ३५ ॥ आरामनगरे रम्ये जगदाल्हादकारकः । जगन्नाथ: सोमनाथस्त्रैलोक्ये चाऽपि दुर्लभः ॥ ३६॥ नाना कैलालनगरे सोमनाथो महेश्वरः । संसारतारणो देवः संसारपाशछेदनः ॥ ३७॥ धर्मार्थकाममोक्षाणां वाञ्छितार्थफलप्रदम् । सर्वतीर्थ महोत्साहं स्वर्गादिभोगभुक्तिदम् ॥ ३८॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृत्रीभुवनदेवाचार्योक्तापराजितपृच्छायां विष्णुवाक्योवारण्ये श्रीसोमेश्वरनिर्णयाधिकारो नाम त्रिंश सूत्रम् ॥