________________
C0
अपराजितपृच्छा तरङ्गभङ्गुरावर्तमुनं मीनैरनेकशः। शिशुमारैश्च नऊश्चाऽनन्तं दुर्ग शुक्त्यादिभिः ॥ १४ ॥ योजनायुतविस्तीर्ण भीषणीयं ग्रहाकुलैः। भयावहं च गहनं गम्भीरावर्तव्याकुलम् ॥ १५ ॥ इमं समुद्रतीरस्थं माहेन्द्र विन्ध्यगामिनम् ? रम्याश्रम प्रभासस्य प्रविष्टस्तारकाधिपः ॥ १६ ॥ प्रणिपत्य तदा देवं प्रभासं भुक्तिमाप्नुयात् । अस्माकमीश्वरं भक्त्या राधयामि च संयतः॥ १७ ॥ तदाज्ञया चाश्रमेऽस्मिन् निष्ठाराध्यमहेश्वरम् । तदा लब्ध्वाश्रम श्रेष्ठं दत्तं प्रभासतुष्टिदम् ॥ १८ ॥ मन्वन्तरं शतं साधं सोमोऽकार्षीत् तपो नृपः । तोषयित्वा महादेवं प्रत्यक्षं शिवसम्भवम् ॥ १९ ॥ आल्हादितमना भूत्वा दृष्ट्वा च परमेश्वरम् ।
राजेन्द्र क्षिति कृत्वा तु निश्चलं देवसम्भवम् ? ॥ २० ॥ ईश्वर उवाच
तुष्टो ऽहं तव राजेन्द्र भक्त्या च परया त्वयि । वरं ब्रूहि च दास्यामि यथेच्छं तारकाधिप ॥२१॥ धर्मार्थकाममोक्षाणां ददामि यत्त्वदीप्सितम् ।
नासत्यं नान्यथा चैवं त्वद्भक्त्या रोहिणीपते ॥ २२ ॥ चन्द्र उवाच
अस्माकमात्मनः पार्श्वे मानसाङ्गं सुधार्यकम् ।
ममाभिधानतश्चैवाऽवतारस्तव साम्प्रतम् ॥ २३ ॥ देव्युवाच
शशाङ्क देवदेवेश तिलकत्वमवाप्नुहि ।
अथातस्त्वं तत्तिलके तथा तिष्ठ मम प्रिय ॥२४॥ ईश्वर उवाच
त्वयेप्सितं वरं यच्च प्रयच्छामि हितैषिणे । इच्छयात्ममुखेनैवाऽसारसंसारमोक्षदम् ॥ २५ ॥ निश्चितात्मसुखैरेवं शान्तावस्थो मुखबोधिनी ? । स्वप्नावस्थायां न सौख्यमात्मनो गहिणीपतेः ॥२६॥ स्वप्नावस्थो यदा दृष्टो भस्मोद्धालेततापसः। स्कन्धारुह्य हतं चार ? अस्मत्त्वयि विनिवेदयेत् ? ॥ २७ ॥