________________
(३०) विष्णुवाक्योद्भवारण्ये श्रीसोमेश्वरनिर्णयो नाम
त्रिंशं सूत्रम् ॥
विश्वकर्मोवाच
अथातोऽनन्तरं तत्र पर्वते गन्धमादने । आगतश्च स्वयं विष्णुर्जगदाल्हादकारकः ॥ १॥ उद्धृत्याम्ब्वर्थपात्रं तु त्वष्टाद्यैर्मुनिसत्तमः। सुरासुरैः समस्तैश्च स्तूयमानं जगत्पतिम् ॥ २॥ स्थित्वासने महोत्सवे सिंहरूपाधलङ्कृते । प्रहृष्टं च जगन्नाथं शङ्खचक्रगदाधरम् ॥ ३॥ त्वष्टाद्याश्च मुनीन्द्राश्च हरिपार्वे तु संस्थिताः । सिंहासने निविष्टं तमादितेजोभवं प्रभुम् ॥ ४॥ ॐ नमो भगवते वासुदेवाय नमो नारायणाय । ॐ नमः कृष्णाय इति मूलमन्त्राः सर्वपापप्रणाशनाः ॥ तानुच्चार्य ।। दण्डवत् प्रणतो भूत्वा पृच्छति त्वपराजितः। दशावतारा: श्रीविष्णोः कथिता विश्वकर्मणा ॥ ५ ॥ त्वष्टा चैव कथं देव कथं तस्य समुद्भवः ।
कस्मिन्कालेऽवतारश्च कथयस्व जगत्पते ॥ ६ ॥ विष्णुरुवाच
सरस्वत्यर्णवाभ्यां च पुण्यप्रभास आश्रमः । प्रयतात्मा महातीर्थ गत्वा तु हरजन्मदम् ॥ ७ ॥ दृष्ट्वा तु हरते पापं स्नात्वा देवत्वदायकम् ।। समागतः सोमराजो दृश्वाश्रममथोत्तमम् ॥ ८॥ विविधैर्वनजैः कीर्ण तथा पुष्पैः समाकुलम् । सुरभितामृतोपेतं नानाफलैश्च संकुलम् ॥९॥ पारिजातप्रभृतिभिः कङ्कोलैश्चैव पादपैः। देवदारुभिराकीर्ण तथा वै रक्तचन्दनैः ॥ १० ॥ तालतमालाशोकैश्च रम्भाप्रियङ्गचम्पकैः । पुन्नागनागबकुलैः पाटलैर्बिल्वचन्दनैः ॥ ११॥ जातीतगुरुकुमुदानेकपुष्पैः सुपुष्पितम् । विविधैश्च तथा वृक्षः शोभितं दिव्यमाश्रमम् ॥ १२ ॥ विचित्रं हेमरचितं निर्मलं कुमुदेशवत् । विपुलजलं - ? स्फटिकशङ्खवेदी? ॥ १३ ॥