________________
अपराजितपृच्छा एकवर्णीभविष्यन्ति वर्णाश्चत्वार एव च ॥ वर्णान्तराणि भियन्ते यास्यन्ति प्रलयं प्रजाः ॥ १६॥ दुर्भिक्षाणि भविष्यन्ति राज्ञां दुर्दयचेतसाम् । वर्णान्तर वि राज्ञां ते विदुर्दुर्गे शून्यचेतसा? ॥ १७ ॥ अधर्मीभवत् समस्तं दयाधर्मविवर्जितम् । कीर्तितो बुद्धावतार: कलौ च नवमो हरिः ॥ १८ ॥ ततः कलियुगान्ते चोत्पत्स्यति दशमो हरिः । ब्राह्मणो हरिपिङ्गल: याज्ञवल्क्यपुरोहितः ॥ १९ ॥ ततो हरिः कलेरन्ते दशमः संभविष्यति । कुम्भलग्नभवो देवो ह्यश्वारूढो जगत्पतिः ॥ २० ॥ म्लेच्छानां छेदनं कृत्वा यजेद् देवं सुवर्णकम् । एकच्छत्रं धराराज्य लक्ष्म्याः कृतयुगे पुरा ॥ २१॥ इदं जन्मरहस्यं तु कीर्तयिष्यन्ति ये नराः । सुलभश्च हरिस्तेषां नित्यं वै सर्वजन्मसु ॥ २२ ॥ ॐ नमो वासुदेवाय नमो नारायणाय च । नमः कृष्णायेतिमन्त्राः सर्वपापप्रणाशनाः ॥ २३ ॥ शृणोति जन्मरहस्यं ब्रह्मा गुरुतल्पगः । स्लीवालधातकश्चैव सुरापो वृषलीपतिः ॥२४॥ मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । यः पठेत् परया भक्त्या विष्णुजन्मप्रकीर्तितम् ॥ २५ ॥ मर्त्यलोकपरिभ्रष्टो विष्णुलोकं स गच्छति। ईप्सितं लभते राज्यं स्वर्गे वा भूमिशासने ॥ २६ ॥ गतागता निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ २७ ।।
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
विष्णोर्जन्मरहस्यदशावताराधिकारो नाम नवविशं सूत्रम् ॥