________________
(२९) विष्णोर्जन्मरहस्यदशमोऽवतारो नाम नवविंशं सूत्रम् ॥
विश्वकर्मोवाच
कलौ युगे तु सम्प्राप्ते आश्विने कृष्णपक्षके । नवम्यां च तिथौ चैव मृगान्ते सुमुहूर्तके ॥१॥ शुद्धोदनसुतो भूत्वा मोहयिष्यामि मानवम् । युगे तत्र भविष्यन्ति मुण्डाः काषायवाससः ॥२॥ शूद्राः शरेषु दास्यन्ति विष्णौ बुद्धत्वमागते । तेषामल्पतरो धर्म इह लोके परत्र च ॥ ३॥ दिगम्बरवृत्तिकास्तत्र बुद्धयुक्तकलौ युगे। श्वेताम्बरास्तथान्ये च तथा नीलाम्बराः क्वचित् ॥ ४॥ जिनोक्ताः केवलिनश्च चतुर्विशतितीर्थगाः । अनन्तरं चर्षभाद्याश्चतुर्विंशति रेव च ॥५॥ हुताशन: पद्मनाभो जिनानां तु च सङ्ख्यया। उता: शासनदेव्यश्च यक्षाणां च तथैव च ॥ ६ ॥ पृथगेकैकशः प्रोक्ता अष्टौ वै प्रतिहारिणः।। वणिग्धर्मेण मुदिता ज्ञानार्णव उदाहृताः ॥७॥ तेषां न मानहोमानि पितृपिण्डो न दीयते । पाखण्डिनो विकर्मस्थाः पाणिपात्रेषु भक्षकाः ॥ ८॥ दर्शनेऽपण्डिताश्चैव गमिष्यन्ति च नारकान् । तेषां दत्तं च भुक्तं च भस्मीभवति काष्ठवत् ॥ ९॥ स्वाध्याये चैव सीदन्ति ब्राह्मणाः शौचवर्जिताः। वेदविक्रयिणश्चैव लोभिनोऽस्थिरचेतसः ॥ १० ॥ न स्निह्यन्ति पिता पुत्रा योषितो भ्रातरस्तथा । न भृत्या नेव मित्राणि भविष्यन्ति न शान्तिदाः ॥ ११ ॥ धर्मो जितो ह्यधर्मेण सत्यं चैवानृतेन च। जिताश्चोरैश्च राजानः स्त्रीभिश्च पुरुषा जिताः ॥ १२ ॥ सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति । दशमे द्वादशे वर्षे नारी गर्भवती भवेत् ॥ १३ ॥ कन्याश्चैव प्रसूयन्ते तस्मिन्कलियुगे सदा। सम्प्राप्ते षोडशे वर्षे नरा गलितयौवनाः ॥ १४ ॥ अल्पोदकास्तथा मेघा अल्पशस्या तु मेदिनी । अल्पक्षीरास्तथा गावः क्षीरे सर्पिर्न विद्यते ॥ १५ ॥