________________
अपराजितपृच्छा ध्यष्टयोजन विस्तारा ह्यायता व्यष्टयोजनैः । समुद्रेण च तद्द्वारमुत्तमा द्वारिकाभिधा ॥ ३२॥ सर्वश्रेष्ठा पूरीणांच द्वारिका विष्णुभक्तिदा। चत्वारिंशत्सहस्राणि दन्तिनश्च महोत्कटाः ३३ ॥ चतुर्लक्षाणि सङ्ख्याता अश्वास्तेजस्विनस्तथा । रथाः सपादकोट्यश्च चोष्ट्राः सार्धत्रिकोटिकाः ॥ ३४ ॥ तथाष्टादशकोट्यश्च यादवाश्च महाबलाः । सुभटाश्च महावीरा असङ्ख्याता: पदातयः ॥ ३५ ॥ द्वारिका या पुरी ख्याता पूज्या सुरनगरगैः। सिद्धचारणसंगीता ह्यप्सरोगणसेविता ॥ ३६॥ विद्याधरैश्च गन्धर्वैर्नागेन्द्रेश्वोपसेविता। तपोधनैश्च दिव्यैश्च ऋषिवृन्दैः समावृता ॥ ३७ ।। माया च मथुरा चैवायोध्या वाराणसी तथा । काञ्ची जयन्ती द्वारका ह्येता मुक्तिप्रदायिका ॥ ३८ ॥ जरासंधं वधिष्यामि हेतुमात्रेण भीमतः । शिशुपालं वधिष्यामि यो धर्मसुतस्य वै ॥ ३९ ॥ ततः पश्चात्करिष्यामि साहाय्यमर्जुनस्य च । विष्णोर्वाक्यसहायेन हनिष्यामि कुरून् रणे ॥ ४० ॥ शस्त्रहस्ता मृता येऽत्र स्वर्ग यास्यन्ति क्षत्रियाः। कलौ च समनुप्राप्ते चतुर्थे युगपर्यये ॥४१॥ नेमिनाथाभिधानस्तु समुद्रविजयात्मजः। गिरिमस्तकसंभूतो द्वाविंशश्च तीर्थकरः ॥ ४२ ॥ पाण्डवांश्च करिष्यामि केदारे तु हिमाश्रयान् । गमयिष्यति स्वर्गे तान् केदारः प्रकटीकृतः ॥ ४३ ॥ पृथिव्यां यानि तीर्थानि यानि तिष्ठन्ति भूतले । केदारं प्रति गत्वा च तदनुग्रहदायकम् ॥१४॥ भारते च महापुण्यं न तीर्थ केदारात्परम् ।
यदिच्छन्ति नरा मोक्षमाश्रयन्तु हिमाचलम् ॥ ४५ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
हरेरष्टमः कृष्णावतारनिर्णयाधिकारो नामाष्टाविंशं सूत्रम् ॥