________________
(३८) भारतक्षेत्रग्राम सङ्ख्यानृपराज्यप्रमाणमष्टात्रिंशं सूत्रम् ॥
विश्वकर्मोवाच
प्रोक्ता तु भारते वर्षे पवित्रे कर्मभूम्यसौ । पुण्यपापप्रभवाणि सर्वभूतानि वै तथा ॥ १ ॥ ग्रामाणां च तथा संख्या देशानां च प्रमाणतः । राज्ञां च युक्तिमानं च अलङ्कारैस्तद्रूपतः ॥ २ ॥ कान्यकुब्जे ग्रामसङ्ख्या शिलक्षकाणि च । अष्टादशलक्षमानं राज्यं गौडेश्वरे मतम् ॥ ३ ॥ तदर्थं कामरूपाश्च तत्समं मण्डलेश्वरम् । कार्त्तिकपुरे तत्सङ्ख्या चौडे लक्षद्वासप्ततिः ॥ ४ ॥ दक्षराज्ये सार्धसप्तलक्षाणि चैव सङ्ख्यया । अष्टादश च लक्षाणि सहस्राणि द्विनवतिः ॥ ५ ॥ उज्जयिन्यां वै सपादलक्षाणि च स्वयंभरे । ललाटे गुर्जरे कच्छे सौराष्ट्रे लक्षकद्वयम् ॥ ६ ॥ सार्धत्रयं मरुकोटे लक्षाणां मरुमण्डले । सिन्धुसागरदेशे तु सार्धलक्षत्रयं स्मृतम् ॥ ७ ॥ खुरषाणे चत्वारिंशलक्षाणि च तथैव च । त्रिगर्तके द्विलक्षाणि तथा ग्रामास्तु सङ्ख्यया ॥ ८ ॥ सूर्य लक्षाण्य हिराज्ये ष्ट्सार्धानि गुडाद्वीपे । जलन्धरे सार्धत्रयं तथा लक्षाणि सङ्ख्यया ॥ ९ ॥ ग्रामाः षष्टिसहस्राणि तथा षष्टिशतानि च । पष्टित्रयस्तथा चैव चेत्थं काश्मीरमण्डलम् ॥ १० ॥ स्त्रीराज्यं च त्रिकूटाख्यं काश्मीरपूर्वगणाधिपः ? | हिमवान् दण्ड आख्यातो वर्षे भारतके तथा ॥ ११ ॥ महापर्वताश्रिताश्च सजलाशयवर्तिनः । पर्वतार्णवमध्यस्थाः सजला देशसम्भवाः ॥ १२ ॥ सिन्धुसागरतो देशाः काश्मीरान्ता जलैर्युताः । गौडबङ्गकामरूपाः सजला: कार्तिकेश्वरे ॥ १३ ॥ महापर्वताश्रमा वै हिमाद्रौ गन्धमादने । श्वेत हेमकूटे नीलनिषधमन्दरे ॥ १४ ॥ सौराष्ट्रकच्छकलाटा कोङ्कणानि चतुर्दश । श्रीशैलसमुद्रे च सजलाश्चोत्तमा मताः ॥ १५ ॥