________________
वामनावतारो नाम षड्विंशं सूत्रम् ॥ भुञ्जते रौप्यपात्रेषु स्मरार्ता विप्रजातयः। नैव सायं नास्ति भाट्ट न दर्शनचतुष्टयम् ॥ १३ ॥ नृपा युद्धानि कुर्वन्ति भूभ्यर्थे च परस्परम् । त्रिपादो वर्तते धर्मः पादश्चैकस्त्वकर्मणि ॥ १४ ॥ दैत्यवंशोद्भवो राजा बली स्याद दानगर्वितः । गर्वहा संभविष्यामि विष्णुर्वै बलिवञ्चने ॥ १५ ॥ अदितेः कश्यपसुतः सम्भविष्यामि भूतले। भाद्रशुक्लद्वादश्यां वै धवणे सुमुहूर्तके ॥ १६ ॥ अदितेश्च समुत्पन्नो लघुकायो दृढात्मकः । तत्रोद्भविष्यदेवं च विष्णु वामनाकृतिः ॥ १७ ॥ ततो वामनरूपेण स्तूयमानो द्विजोत्तमैः । स्वागत: सिंहद्वाराग्ने बलियत्र धरापतिः ॥ १८ ॥ समुच्चार्य वेदशास्त्रं द्विजसहस्रध्वनिर्यथा ।
घलिस्तुष्टो ऽथ विप्रेन्द्र ददामि यत्नवेप्सितम् ॥ १९ ॥ विष्णुरुवाच
ममपादत्रयं भूमेर्याचनीयं नृपोत्तम । नैवाऽकारू च राजेन्द्र महादानानि भोगिनाम् ॥ २० ॥ हस्तोदकं मया दत्तं यावश्चन्द्रार्कतारकम् । तं दिव्यरूपमास्थाय क्रमिष्यामि वसुन्धराम् ॥ २१ ॥ यलिं चैव करिष्यामि पातालतलवासिनम् । देवांश्चैव करिष्यामि स्वस्वस्थानेषु शाश्वतम् ॥ २२ ॥
इति सूत्रसम्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वामनावतारनिणयाधिकारो नाम षविंशं सूत्रम् ॥