________________
(२६) वामनावतारो नाम षड्विंशं सूत्रम् ॥
अपराजित उवाच
हिरण्यकशिपुोरो जातः कस्मादुपायतः।
अफलं वर्धितं केन ? कथयस्व प्रसादतः ॥१॥ विश्वकर्मोवाच
हिरण्यकशिपु पूर्व कथयिष्यामि साम्प्रतम् । महोत्कटश्च येनाऽसाववध्यो देवदानवैः ॥२॥ तेनस्ववशमानीता: देवासुरनरोरगाः । ससुतं वैष्णवं दिव्यं विष्णुपादसुचिन्तकम् ॥ ३ ॥ हिरण्यकशिपुर्हन्तुं प्रल्हादं प्राञ्जलिं सुतम् । कृत्वा चैवाग्निमध्यस्थं पर्वतादू विनिपातितम् ॥४॥ निबध्य च जयस्तम्भे शुभं वै वजशङ्खलैः। तेनाऽसौ स्तूयमानश्च विष्णुः स्तम्भार्दनांचितः ॥५॥ प्रयोदशलक्षाब्देषु गतेषु च कृते युगे। राधशुक्लचतुर्दश्यां ज्येष्ठान्ते च मुहूर्तके ॥६॥ ऊच सिंहतनुं कृत्वा चाधो नरतनुं तथा । स्तम्भं संस्फोट्य तं घोरं सूदयिष्यति दानवम् ॥ ७॥ प्रल्हादस्य तथा राज्यं विष्णुर्दास्यति भूतले । एकच्छत्रां स दत्तां च पालयेद्भूतधारिणीम् ॥ ८॥ यं दृष्ट्वा नारसिंह विकृतनखमुखं तीक्ष्णदंष्ट्राकरालम् पिङ्गाक्षं स्तब्धकर्ण हुतवहसदृशं कुञ्चितानोऽनकेशम् । भीतास्ते दानवेन्द्रा असुरवरभटाः शस्त्रमुद्गीर्यहस्तात् हाहा किं किं किमेतत् क्षुभितजनपदः पातु वो नारसिंहः ॥९॥ यः स्तम्भाद् गर्जमानो गगडगडगडद् बालचन्द्राष्टः व्योमा व्याप्यमान: पपटपटपटत् पोट्यमानः शटाभिः । हुंष्ट्राभिः खाधमानः ककटकटकटत् स्तूयमानः सुरेन्द्रः निष्कान्तो हास्ययुक्तः ककहकहकहत् पातु वो नारसिंहः ॥ १०॥
__इति नृसिंहावतारश्चतुर्थः ।। सन्धौ च समनुप्राप्ते त्रेतायाश्च कृतस्य च । अयुक्ताश्च नरा नार्यश्चात्पशस्था तु मेदिनी ॥ ११ ॥ तीर्थात् पुण्यानि गच्छन्ति लोको दानानि वाञ्छति । दासन्ति विप्राः शूद्वेषु वैश्याश्च नृपपावनाः ।। १२ ॥