________________
वराहावतारो नाम पञ्चविंश सूत्रम् ॥ उभयोगिरिगोत्राश्च भुजयोः शैलजास्तथा । कर्णिकायां च संसारो मणिबन्धे महोत्कटाः ॥१५॥ इन्द्रः खुरेषु गन्धर्वाः क्षुरन्ध्रेषु पन्नगाः। क्षुराग्रे चाश्विनौ देवौ जानुसन्धौ च रुग्व्ययः॥ १६ ॥ अहिला ? हृदयदेशे जठरे जगतो धृतिः । कुक्षौ सप्तार्णवाः प्रोक्ताः पुच्छे सृष्टिकरस्तथा ॥ १७ ॥ तदूच कूर्मरूपं तु कूमार्वे गरुडो मतः । पञ्च व तत्वानि यतः स्मृतः सृष्टिसमुद्भवः ॥१८॥ पञ्चतत्वोद्भवा सृष्टिः ख्यात: संसारसागरः। एवमाधोद्भवो देवः संसाराश्च समुद्धरेत् ॥ १९ ॥ पापात्समुद्धरेद्येन लीलया धार्यते महीम् । खुणमध्यगतो यस्य मेरु खुणखुणायते ॥ २० ॥ पातालं यस्य कुक्षौ सकलशिखरिणो मन्दरो मेरुकाद्याः इंष्ट्राग्रे यस्य लग्ना त्रिभुवनसहिता मेदिनी सागरान्ता। आरक्ते यस्य नेत्रे सुरभिसुरदितं घर्घरं यस्य काले द्वौ फर्णों भुजगदृष्टि कपट तनुकृत ? पातु वः श्रीवराहः ॥ २१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वराहावतारनिर्णयाधिकारो नाम पञ्चविंशं सूत्रम् ।।.