________________
(२५) वराहावतारो नाम पञ्चविंशं सूत्रम् ।।
अपराजित उवाच
पृथिव्यां सागरा द्वीपा: सशैलवनकाननाः ।
कैराधारैरुध्धियन्ते कथयस्व परेश्वर ॥१॥ विश्वकर्मोवाच
नागराजधृताः शैलाः पृथिव्यां द्वीपसागराः। भाराकान्ता च वसुधा भीता याता रसातले ॥२॥ तदाक्षीरार्णवे सर्वे विष्णुपार्श्व गताः सुराः । रक्ष रक्ष परं विष्णो जगत्स्थावरजङ्गमम् ॥ ३॥ रक्षरक्षाऽऽर्यलोकांश्च पादोऽधर्मस्य वर्तते ।
तेन सा च भराक्रान्ता भूतधात्री बधोगता ॥४॥ विष्णुरुवाच
रसातले गमिष्यामि भूताधारधरा मही। आत्मस्थाने स्थापयिष्ये तामधो गम्यते मया ॥५॥ कृताधे च समायाते चैत्रकृष्णजयातिथौ । सूर्यनाममुहूर्तान्ते हस्तान्ते घटिकाद्वयम् ॥ ६ ॥ वराहरूपमास्थाय अप्रमाणं महोत्कटम् । भृकुटिस्फुरद्दशनं तेज:पुअसमुद्भवम् ॥ ७ ॥ दंष्ट्राग्रे वसुधां धृत्वा सशैलद्वीपसागराम् । संपूजितः सर्वदेवैरागतः पृथिवीधरः ॥ ८॥ पुष्करे परमेश्वरो नासाग्रे पवनात्मकः। पलिका ऊर्ध्वकेशेषु शम्भुसृष्टिसमुद्भवा ॥९॥ अधरैश्चाधकोद्भतं ? दंष्ट्रायां शैलसंभवः । सरस्वती च जिह्वायां तालुकेऽमरकोटयः ॥ १० ॥ प्रीवायां सुरसंघाश्च ओष्ठयोश्चासुरास्तथा । कपाले कार्मुककरश्चन्द्रार्को चैव नेत्रयोः ॥ ११ ॥ कर्णयोश्चैव गन्धर्वास्त्रिकोटिः सार्धमस्तके। पृष्ठोपरि तथा मेरुर्लिङ्गाकारेण संस्थितः ॥ १२ ॥ पञ्चवकत्रो महादिव्यो व्योमव्यापी सदाशिवः । तस्य प्रदक्षिणे मेरुर्भुवनानि चतुर्दश ॥ १३ ॥ स्थिताश्चैकादश रुद्रा द्वादशादित्यकास्तथा। चतुर्दशमनवश्च त्रिदशास्स्युरनेकधा ॥ १४ ॥