________________
कूर्मावतारे मन्दरार्णवमन्धनं चतुर्विंशं सूत्रम्
सर्वाभरणसंस्थानं हारकेयूरकादिकम् । स्तम्भेद्वारे गृहे शुद्धं प्रासादेषु च सर्वतः ॥ २८ ॥ शुद्धस्थानेषु सर्वेषु पत्रं पट्टचित्रादिकम् ।
X
X X X X X X × ॥ २९ ॥ यत्र तद् दृश्यते पत्रं स्त्रियस्तत्र हितेक्षणाः । तत्रोत्पन्नं तु कलशमष्टमाङ्गल्यसम्भवम् ॥ ३० ॥ संछन्नं फलपुष्पैश्च पत्रैश्च वलयीकृतम् । अभिषेके पट्टबन्धे प्रतिष्ठोद्वहनादिषु ॥ ३१ ॥ प्रासादे राजभवने कलशं विनिवेदयेत् । षोडशाभरणैर्युक्ता लक्ष्मीस्तत्र विनिर्गता ॥ ३२ ॥ द्वादशादित्यसंकाशास्त्रैलोक्यम (पि) णिदीपिका | X X X X X X X × ॥ ३३ ॥
अमृतं सर्वदेवेषु रावतः सुराधिपे । अभ्यश्च भास्करे देवेऽपस्करः सर्वतः समः ॥ ३४ ॥ पुनश्च मन्थनं कृत्वा अलक्ष्मीस्तत्र निर्गता । समुपेता पञ्चगुणैर्दत्ता या तु पितामहे ॥ ३५ ॥ अतिक्षुधा च दीनत्वं याचनं भ्रमणं तथा । अलक्ष्म्याः पञ्चमुद्राश्च करपात्रं च यष्टिकम् ॥ ३६ ॥ पुनर्मन्थनं कृत्वा तु विषं तत्र विनिर्गतम् । न तद् गृह्णन्ति वै देवा दानवैर्नैवगृह्यते ॥ ३७ ॥ नीलकण्ठे मयूरे च तद्रूपं वृषभध्वजे । तद्रूपेण तथेशेन तस्मात्तद्भक्षितं परम् ॥ ३८ ॥ पुनर्विनिर्गता चैव मदिरा कलिकोद्भवा । तां च पीत्वा कलिजतो मथनस्य विसर्जनम् ॥ ३९ ॥ अर्थक्षया शौचभ्रंशा गूढमन्त्रप्रकाशिका | नष्टकार्या तनुकृष्टा चागम्यागमपापदा ॥ ४० ॥ अधर्मकलिकोद्भावा गृहच्छिद्रादिकारिका । तथा त्योत्तमस्नेहा मृतनिर्गत चेतना ॥ ४१ ॥ एवं निन्द्यगुणैर्युक्का मदिरा पानतः कृता । मुक्ता
यैः : सा स्वहितैश्च तेषां श्रीर्बलवर्द्धिनी ॥ ४२ ॥
इति सूत्र सन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छायां कुर्मावतारे मन्दरमयनाधिकारो नाम चतुर्विशं सूत्रम् ॥
५७