________________
अपराजितपृच्छा सर्वसृष्टयुद्भवा धेनुः सर्वकामफलप्रदा। सर्वकाममवाप्नोति कामधेनुनमस्कृतिः ॥ १५॥ ऐरावतो गजेन्द्राणां चन्द्रश्चाप्सरसस्तथा । उच्चैधवास्तुरङ्गाणां सूर्यादीनां च वाहनम् ॥ १६ ॥ अमृतानां सप्तकुम्भा अमृतत्वं च दायिनः । समस्थाली च पात्राणां तलिकातां वा(वो)लुकोद्भवाः? ॥ १७ ॥ पर्यङमासनं चैव तथा सिंहासनानि च । छत्रचामरालङ्काप धूपामोद आरार्तिकम् ॥ १८॥ सिंहासनरुद्रासनवेत्रासनमसूरकम् । गदिका पट्टपं गिट्टि प्रोक्तान्यासनकानि च ॥ १९ ॥ षोडशाभरणं दिव्यं पादादि मुकुटान्तकम् । षट्त्रिंशश्चैव शस्त्राणां निर्गतानि क्षीरार्णवात् ॥ २० ॥ कवचानि च रत्नानि बलीवदोत्सवास्तथा। पुष्पकादिविमानानि श्रीवत्सस्वस्तिकानि च ॥ २१॥ क्षीरार्णवे मध्यमाने निमजद्भिः सुरासुरैः। तत्रोत्पन्नो महावृक्षो नानासुरतरुस्तथा ॥ २२॥ नानापुष्पसमाकीणों नानापत्रसमाकुलः । नानाफलसमायुक्तो पञ्चशाखासमन्वितः ॥ २३ ॥ पुण्यानि तस्य पत्राणि दृष्ट्वा तीर्थमहाफलम् । तस्यानुक्रमरूपं च जातिभेदं च लक्षणम् ॥ २३-१॥ देशजातिकुलस्थानं वर्णभेदमतः परम् । शाखानुक्रमयुक्ती च कथयामि समासतः ॥ २३-२॥ नागरं द्राविडं चैव कालिङ्ग यामुनं तथा । विश्वेश्वरं समाख्यातं पञ्चपत्रसमुद्भवम् ।। २३-३ ॥ नागरा चोत्तरा शाखा द्राविडा दक्षिणोद्भवा । कालिङ्गा पश्चिमा शाखा यामुना पूर्वदिग्भवा ॥ २४ ॥ विश्वेशा ऊर्ध्वशाखायां पञ्चजातिमहोत्सवाः। एकैकं पञ्चभेदाश्च कथयाम्यपराजित ॥ २५॥ पञ्चजातिर्दशभेदास्तथा षोडश वै कलाः। मासपत्रं चतुर्जातमबुंदादिसमुद्भवम् ॥ २६॥ जलजं स्थलजं पत्रं मेघजं गिरिकोद्भवम् । जीवपत्रं निभाकारं भेदभिन्नं व्यवस्थितम् ॥ २७॥